________________ 84 काव्यमाला / इत्यादौ द्विप्रभृतीनामर्थानामविभज्य विनिवेशनमिष्यते / तस्माच्छन्दश्वार्थ शब्दार्थौ / तयोस्तुल्यत्वं यावदुद्देशशब्दार्थम् / अर्थस्य विभज्य तुलाधृतवत्प्रति निवेशः संमितत्वमिति / अर्थमुद्दिश्य शब्दतुलनं काव्यभावबीजं शब्दगुणः शब्दमुद्दिश्य त्वर्थतुलनमर्थगुणश्च / तथाहि-परमेश्वरस्य मूर्ध्नि बालेन्दुः, पार्व तीस्तने नखाङ्क इति पृथक्शब्देनोद्दिश्य तदुपमायोग्यतया कार्यकतायां दलनं हृत्पद्मनवमद्वारयोर्ध्यानेन युगपत्संनिधानमिति सम्यग्विभज्य तुलितस्येव प्रणवस्य प्रतिनिर्देश इति // तदिदमाह-अत्रेति / यथावदिति / येन प्रकारेण संगच्छत इति तदनतिक्रमेणेति // साभिप्रायोक्तिविन्यासो भाविकत्वं निगद्यते / / 86 // यथा'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति / एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं * नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः // 118 // ' अत्र तमालमालावलयितसरित्तीरकृतसंकेतायाः कुलटायाः खतनौ भाविनां परपुरुषनखक्षतानां नलग्रन्थ्यालेखव्याजगोपनेन साभिप्रायभणनं भाविकम् // साभिप्राय इति / अभिप्रायविशेषप्रतिबद्धस्य वाक्यार्थस्योक्तिविन्यास उक्त्या विशेषो न्यासः / शब्दगुणे पदानां भाव्यर्थनिष्पादिता इह त्वर्थस्येति विशेषः / तथा हि-दृष्टिमित्यादौ तनुमालिखन्तु जरठच्छेदा नलग्रन्थय इत्युक्त्या विन्यस्थमान एव भाविनलग्रन्थ्यालेख्यरूपार्थः कुलटास्वरूपानुसंधानदत्तान्तःकरणस्य प्रतिपत्तुरनन्तरमेव खैरविहारचिह्नगोपनमभिव्यनक्ति // गतिः सा सादवगमो योऽर्थादर्थान्तरस्य तु / यथा'शुभे कोऽयं वृद्धो गृहपरिवृढः किं तव पिता . न मे भर्ता रात्रौ व्यपगतहगन्यच्च बधिरः /