________________ '1 परिच्छेदः / सरखतीकण्ठामरणम् / यथा____ 'श्रूयतां धर्मसर्वखं श्रुत्वा चैवावधार्यताम् / * आत्मनः प्रतिकूलानि परेषां न समाचरेत् // 116 // __ अत्र शास्त्रे विस्तरप्रतिपादितस्य धर्मस्य श्लोकार्धेनोक्तत्वादयमर्थसंकोचः संक्षेपः // संक्षेप इति / तस्येत्यर्थस्य समासे गुणीभूतस्यापि बुद्ध्या विभज्य परामर्शः / यथा-'अथ शब्दानुशासनम् / केषां ? शब्दानामिति / अशेषविशेषोपग्राहकपुरस्कारेण वाक्यार्थस्याभिधानं विवृतसंवृतपटवत्संक्षेपः // श्रूयतामिति / अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किंचिदात्मनः प्रतिकूलमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रवृत्तप्रवर्तने प्रगल्भायमानमतिसु. न्दरमाभासते / नात्र रचनासंकोचप्रतिष्ठितं काव्यमिति शब्दगुणाझेदः॥ शब्दार्थों यत्र तुल्यौ स्तः संमितत्वं तदुच्यते / यथा'इन्दुमूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने - देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः / संवादः प्रणवेन यस्य दलता कायैकतायां तयो. रूद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च // 117 // ' अत्र प्रणवलक्षणस्यार्थस्य तुल्यत्वेन यथावद्विभज्य विनिवेशनं संमितत्वम् // शब्दार्थाविति / शब्दस्यार्थी तयोविभज्य विनिवेशनं संमितत्वमिति केचित् , तन्न / शब्दग्रहणवैयर्थ्यप्रसङ्गात् / द्वित्वाविवक्षाप्रसङ्गाच्च / 'पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं व मुणहअच्छेहिम् / फलिअंमिव पीणपओहरेहिं अज्जाइ लावण्णम् // ' 1. न परेषाम्' ख-ग. 2. 'प्रतिपादितत्वात्' ख. 3. 'पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितगिव मुग्धाक्षिभ्याम् / / फलितमिव पीनपयोधराभ्यामाया लावण्यम् // ' इति छाया.