________________ 82 काव्यमाला। अत्र मैत्र्यादिपदानां शास्त्रार्थसव्यपेक्षत्वाद्गाम्भीर्यम् // शास्त्रार्थ इति / एकपुरुषार्थप्रयोजनकपदार्थव्युत्पादनं विधिनिषेधव्युत्पत्तिफलकं शास्त्रं तदर्थसव्यपेक्षत्वम् / तदुक्तप्रक्रियानिरूपणाधीननिरूपणत्वं वाक्यार्थस्य गाम्भीर्यम् / मैत्रीकरुणामुदितोपेक्षा इति चतस्रश्चित्तसंमार्जनाः / अविद्यास्मितारा. गद्वेषाभिनिवेशाः पञ्च क्लेशाः / चित्तवृत्तिनिरोधो योगः; स एव व्युत्थानहेतुभिर. नास्कन्दनीयः सबीजः / सत्त्वं प्रधानम् , पुरुषश्चिद्रूपस्तयोर्भेदः प्रथाख्यातिरिति सांख्यप्रक्रिया। अत्र मैत्र्यादिपदानामिति / वाक्यार्थस्यैव यथोक्तरूपत्वे तत्प्रतिपादकपदानामवश्यं तथाभावो भवतीति वैशेषिकाद्भेदो वक्ष्यते // विस्तरोऽर्थविकासः स्यात् यथा'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् / कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरनघा कीर्त्या च सप्ताब्धयः // 115 // ' अत्र विपक्षवधात्सप्ताब्धिव्यापिनी कीर्तिरर्जितेत्येतावतोऽर्थस्य बहुविधं विकासितत्वाद्विस्तरः // . विस्तर इति / वाक्यार्थस्य पल्लवभूततत्तत्सहृदयचमत्कारिविशेषप्रसारणं संत्रतविवृतपटवत् विस्तराख्यो गुणः / विस्तर इव विस्तरः शब्दप्रपञ्चवदित्यर्थः / अन्यथा विस्तार इति स्यात् / संग्रामाङ्गणेत्यादौ तु शत्रुशिरश्छेदात्सप्ताब्धिव्यापिनी त्वया कीर्तिरार्जितेत्येतावान्वाक्यार्थो लौकिकसाधारणतया च चमत्कारास्पदमिति संग्रामाङ्गणसंगतिरेव न तथा यथा वीरमात्रस्योचिता तत्रापि चापसमारोपणमिति काप्युत्साहशक्तिः / अत एव बलवदाश्रयप्रसक्तलुण्टाकवधेन यदवसितं तेनैव तदासादितमिति सोपस्कारकर्तृकर्मप्रपञ्चेन विकासनमेव काव्यपदवीप्राप्तिबीजम् / तदिदमाह-बहुविधं विकासितत्वादिति / नात्र शब्दविकासाधीनः प्रकर्ष इति शब्दविस्तराद्भेदः // संक्षेपस्तस्य संवृतिः // 5 // 1. 'बहुधा' क.