________________ * 1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / सौक्ष्म्यमित्युच्यते तत्तु यत्सूक्ष्मार्थाभिदर्शनम् // 84 // यथा 'अन्योन्यसंवलितमांसलदन्तकान्ति ___ सोल्लासमाविरलसं वलितार्यतारम् / लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति // 113 // ' अत्रान्योन्यसंवलितमांसलदन्तकान्तीत्यादिवाक्ये दंपत्योरनुरागलक्षणस्य सूक्ष्मार्थस्य दर्शनात्सौक्ष्म्यम् // सौम्यमिति / सूक्ष्ममित्यादिवाक्यैकगोचरोऽर्थः कुशाग्रीयबुद्धितया सूक्ष्मस्तस्य दर्शनमुपायवैलक्षण्यात्तत्तद्विशेषवतः प्रत्यक्षायमाणता / सूक्ष्मालंकाराद्भेदस्तृतीये करिष्यते / स चायं भाव्यो वासनीयश्च / भावनामात्रगम्यो भाव्यो यथा-- 'उच्चइ आगमहि आवर्ल्ड सिजन्तरो सपरिआरम् / पाणी पसरन्तमत्ताचंवफलिहचसअम्मुहं बाला // ' * एकाग्रताप्रकर्षगम्यो वासनीयस्तमुदाहरति-अन्योन्येति / व्याजापसृतपरिवारे लीलावेश्मनि तत्कालकलितमन्मथोन्माथं विदग्धमिथुनमुत्तरोत्तरमपनीयमानत्रपासाध्वसतया प्रतिकलं नवेन्दुवत्कान्तिविशेषमासादयति / विचित्रमव्यभिचार्यनुप्रवेशे हर्षरुदितस्मितादीनामव्यवस्थिततया व्यतिरेकरूपकिलकिञ्चिताख्यशृङ्गारभावोन्मेषः // ___ शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते / 'मैत्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः / ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् // 114 // ' 1. संचलित' इति सटीकपुस्तके; 'संमिलित' ग. 2. 'उच्यारागच्छेरावर्धय सिध्यन्तरः सपरिवारम् / पाणी प्रसरन्त ... ... ... ... ... ... बाला' इति च्छाया. 6 स० क. यथा---