________________ काव्यमाला। . ... अदारुणार्थपर्यायो दारुणेषु सुशब्दता // 83 // यथा'देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे / लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रौणिरयं सहायः // 111 // अत्र मुमूर्षामरणादीनां दारुणार्थानां दीर्घनिद्रां वाञ्छति यशोऽवशेष इत्यादिभिः सुशब्दैः पर्यायेण भणनं सुशब्दता / सा च मुख्यार्थव्यतिक्रमस्य वाक्यार्थत्वान्न शब्दगुणः // अदारुणेत्यादि / झटित्यातङ्कदायी दारुणस्तस्य साक्षादभिधाने विवक्षितप्रतीतिस्खलनखेदसंभवात्तदुपनीतस्य वस्तुनस्तदध्यासान्तरितस्य वाक्यार्थत्वादिति / सर्वत्रैव हि लक्षणायामाध्यासोऽङ्गीक्रियते। लौकिकी चेयं लक्षणेति न प्रयोजनगवेषणमपीति / सुगममुदाहरणम् // व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः / यथा'दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा। आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् // 112 // ' अत्र गमने सति प्रियजनावलोकनाभिलाषिण्याः शकुन्तलाया. दर्भाङ्कुरचरणक्षतिवल्कलव्यासङ्गादिव्याजावलम्बनं समाधिः // व्याजेति / चित्तवृत्तिषु बलादाविर्भवन्तीषु प्रकृतरसौचित्यविरोधिप्रकर्षात्यकटमनावरणीयासु च यदन्यथा समर्थनं तद्व्याजावलम्बनं प्रस्तुतोचितसमाधानार त्मकत्वात् / तथा हि-पूर्वानुरागे वपासाध्वसविवशायास्तावन्नायकसमीपादपसरणमौचित्यापन्नम् / अनन्तरं तूत्कण्ठातरलितायाः कथमालोकमात्रेणापि कृतार्थः स्यादिति परावर्तनम् / तत्र च मौग्ध्यभङ्गशङ्कायां दर्भाङ्कुरक्षतिप्रभृतिव्याजावलम्ब; नमेव कार्यसर्वखमाभासत इति //