________________ .1 परिच्छेदः / सरखतीकण्ठाभरणम् / रूढाहंकारतौर्जित्यम् यथा 'उमा वधूभवान्दाता याचितार इमे वयम् / ___ वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः // 109 / ' अत्रेमे वयमित्यात्मान्वितव्रतचर्यादिसमुत्थप्रौढाहंकारप्रतिपादनादौर्जित्यम् // रूढेति / ऊर्जितशब्दोऽहंकृते प्रसिद्धस्तात्कालिकनिमित्तोपनिपाते वासनाविकासात्तमोनिर्भेदस्थानेषु सुप्तप्रबुद्ध इव स्थायिभिरसंसृज्यमानः प्रथमप्रादुर्भूतोऽभिमानोऽहंकार इत्युच्यते / रूढः सूक्ष्मावस्थातो द्वितीयामाविर्भावदशामापन्नोऽहंकारो यस्य स रूढाहंकारस्तस्य भावस्तत्ता / सुगममुदाहरणम् // प्रेयस्त्वर्थेष्वभीष्टता। यथा'रसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् / सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो वदतु यदिहान्यत्वादु स्यात्नियादशनच्छदात् // 110 // ' अत्रामृतप्रभृतिभ्यः प्रियादशनच्छदस्याभीष्टताप्रतिपादनं प्रेयः // प्रेय इति / शब्दगुणे तु निष्पादितवर्णनीयप्रीतिजनकत्वं पदानामुक्तम् / इह तु वाक्यार्थस्य वक्तृप्रीतिगोचरत्वमुच्यत इति विशेषः / प्रीतिरुक्तपूर्वा / तत्रैवाभिशब्देन प्रकर्षों द्योतितः। अभीष्टता प्रेय इति प्रेयःपदप्रवृत्तिनिमित्तम् / रसवदिति / प्रशंसायां मतुप् / अमृतमिति यस्य प्रसादात्रिदशैरमरत्वमासादितं नान्यथेति प्रत्यक्षसाक्षिके वस्तुनि प्रमाणान्तरानुसरणम् / प्रसन्नरसमिति अम्लतालक्षणकान्यार्थापगमेन परिणतिरित्यादि // 1. 'मौर्जित्यम्' क-ख.