________________ काव्यमाला / चनस्य कल्पतरुसंबन्धः संपत् , तत्रैव सत्पदेन मुक्तास्तबकमाणिक्यमञ्जरीचीनांशुककिसलयादिविशेषद्योतिना प्रकर्षः / पद्मप्रकरस्तोयसंपत् , तत्रैव काञ्चनमयत्वेन पमानां प्रकर्षः। बहुत्वं शिलावेश्मसंपत्, तत्रैव रत्नरूपताप्रकर्षः / संनिधिः स्त्रीप्रतियोगिकतासंपत्, तत्रैव विबुधेति प्रकर्षः। तदिदमाह-सत्कल्पवृक्षादिपदैरिति // आशयस्य य उत्कर्षस्तदुदात्तत्वमिष्यते / यथा'पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलयेऽपि देये। ब्रीडास्मितं तस्य तदा तदासीञ्चमत्कृतो येन स एव देवः // 107 // ' अत्र सकलक्ष्मावलयप्रदानेऽपि जातवीडतया बलेराशयोत्कर्षप्रतिपादनादुदात्तत्वम् // आशयस्येति / उत्कर्षः पूर्ववत् / उचाशयो लोके उदात्त इति प्रतीतः // पात्र इति / विश्वनाथ इति यदाज्ञावशंवदा त्रिलोकी सोऽपि यत्प्रार्थयत इति, वलयेऽपीत्यपिशब्देन यस्यैकदेशः कुरुपाण्डवनिधननिदानतया विख्यातस्तस्यापि देये लज्जत इति / देवासुरकिन्नरादिरयं जङ्गमस्थावरप्रपञ्चो यदुच्छ्वासविलसितं सोऽपि चमत्कृत इति पदार्थानभिहितः प्रकर्षोऽभिधेयः॥ ओजः स्वाध्यवसायस्य विशेषोऽर्थेषु यो भवेत् // 82 // यथा'तान्येव यदि भूतानि ता एव यदि शक्तयः / ततः परशुरामस्य न प्रतीमः पराभवम् // 108 // .. अत्र परशुरामो विजयत एवेत्यस्मिन्नर्थे खाध्यवसायप्रतिपादनमोजः।। ...ओज इति / अध्यवसायो निश्चयस्तत्र विशेषः पूर्ववत् / खपदेन वक्ताभिमतः // तानीति / यदि हन्तव्यजातीयमेव न विपर्यस्तम् / ता एवेति। प्रभावोत्साहमन्त्रजास्तद्वदर्थनिबर्हणप्रौढिप्रख्यातकीर्तयः शक्तयो यदि न विलीनतामयासिषुः / परशुराम इति / अर्जुनभुजसहस्रच्छेदादिना यस्य परशु(राम)वरदानेन त्रिभुवनेऽपि प्रसिद्ध इत्यादि //