________________ 1 परिच्छेदः। सरस्वतीकण्ठाभरणम् / यथा'मा गर्वमुबह कपोलतले चकास्ति कान्तखहस्तलिखिता मम मञ्जरीति / अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः // 105 // ' अत्र नायिकायाः सपन्यामीानुबन्धेन प्रतिपादितस्य प्रियतमानु. रागलक्षणस्य शृङ्गारस्य दीप्तरसत्वं कान्तिः // कान्तिरिति / रसोऽभिमानात्मा शृङ्गारस्तस्य दीप्तत्वं विभावानुभावव्यभिचारिभिः सम्यक् संचलितेन स्थायिना निरन्तरमुपचीयमानस्य परमकोटिगमनम् / तथा हि-मा गर्वमित्यादौ यत्र भङ्गेषु बहुतरसूक्ष्मभङ्गविशेषमयमञ्जरीलिखितेना बहिर्विषयातिरोधानलक्षणतादवस्थ्यात् प्रकाशनेन नायकस्य सपत्न्यामनुरागे विच्छायभावोक्तिः / स्वात्मनि तु सहसाविर्भवत्सात्त्विकप्रतिपादनेन जीवितसर्वखाभिमानात्मकरतिस्थायिभावप्रकाशने तस्याः सापेक्षभावे नायिकाया अपि तदवस्थैव सा प्रतीयते / तदिदमाह--प्रियतमानुरागेति। अनुरागेण लक्ष्यते सप्तार्चिरिवार्चिषोपचीयत इत्यनुरागलक्षणः // . भूत्युत्कर्ष उदारता // 81 // " यथा 'प्राणानामनिलेन वृत्तिरुचिता संकल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया / ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसंनिधौ संयमो . यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी // 106 // अत्र मारीचाश्रमस्य सत्कल्पवृक्षादिपदैवैभवोत्कर्षस्य प्रतिपादनमुदारता // . भूतीत्यादि / भूतिः संपत्तस्या उत्कर्षो लोकातिगप्रकर्षस्तस्यैव सहृदयचमत्कारार्पकतया गुणधुराधिरोहणक्षमत्वात् // प्राणानामिति / उचिता तपोयोग्या।