________________ .1 परिच्छेदः / सरखतीकण्ठाभरणम् / ___ माधुर्यमुक्तमाचार्यैः क्रोधादावण्यतीव्रता / यथा'भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता. मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् / अन्तर्बाप्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च नो प्रश्रयः // 102 // अत्र वासवदत्तालक्षणस्यार्थस्य कोपेऽपि योऽयं विनयावलम्बनेन कोपचिह्ननिह्नवस्तन्माधुर्यम् // माधुर्यमिति / शृङ्गारकरुणौ हि मधुरो ततस्तद्व्यजकोऽर्थोऽपि मधुरस्तस्य शर्करादिरससोदरं माधुर्यम् / यथा हि-शर्करारसः सहृदयस्यासहृदयस्य वा, सुस्थस्यासुस्थस्य वा, झटिति रसनाग्रमर्पितश्चमत्कारमावहति, तथा चित्तद्रुतिसारचर्वणैकप्राणरसव्यजकोऽर्थस्तेत तयञ्जनशक्तिसमुद्रेकनिर्वहणं वाक्यार्थस्य माधुर्यमिति पर्यवसितोऽर्थः / तत्र वासनापरिपाकवशादुदयव्ययवतीषु दीप्तचित्तवृत्तिषु जागरूकास्वपि समस्तन्यम्भावनया विरोधः संपद्यत इति क्रोधादावप्यतीव्रता इत्युक्तम् / तथा हि-भ्रभेदे इत्यादौ गात्रस्खलितादिना कदाचिदपराद्ध नायके प्रेमस्वभावादारोषलक्षणव्यभिचारिप्रादुर्भावात्तदनुभावभ्रूभेदोद्गमो रतिप्रकर्षाद्भविष्णुनावहित्थेन न्यग्भाव्यते / विरोधिविजये हि भूयान्प्रकर्षः परस्य भवति / अत एव परामित्युक्तम् / एवं 'ईपन्मां प्रति भेदकारि हसितम्' इत्यादी माधुर्यमुन्नेयम् / तदिदमाह-अत्र वासवदत्तालक्षणस्येति // अनिठुरत्वं यत्प्राहुः सौकुमायं तदुच्यते // 80 // यथा 'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी / __ सीता जवात्रिचतुराणि पदानि गत्वा / गन्तव्यमस्ति कियदित्यसकृद्भुवाणा. ......... रामाश्रुणः कृतवती प्रथमावतारम् // 103 // ' . 1. 'प्रोक्तम्' ग.