________________ .. 74 काव्यमाला। ___ यत्तु प्राकव्यमर्थस्य प्रसादः सोऽभिधीयते / यथा'अयमुदयति मुद्राभञ्जनः पद्मिनीना मुदयगिरिवनालीबालमन्दारपुष्पम् / विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्द न्कुपितकपिकपोलकोडताम्रस्तमांसि // 100 // अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकहरणे तमो. विदारणे चानुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यते // यत्तु प्राकट्यमिति / समभिव्याहृतपदार्थसंसर्गात्मनि वाक्यार्थे दर्पणतल इवानुपात्तस्यापि विवक्षितस्य वस्तुनः प्रतिभासोऽर्थप्रसादः / न चेदमनुमानं समा नसंवित्संवेद्यत्वात् / तदाह-अनुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यत इति // अवैषम्यं क्रमवतां समत्वमिति कीर्तितम् // 79 // यथा'अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयो बलाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति / ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता // 101 // अत्र मधुश्रियो मौग्ध्यत्यागयौवनारम्भकृतानां विशेषणानामवैषम्यारसमता // अवैषम्यमिति / येन रूपेण लोकेऽर्थः प्रतीतस्तदनतिक्रमेण तस्योक्तिः समता / वक्रता चात्र विशेषणमूहनीयम् / अन्यथा मुक्त्वा व्रजतीत्यतः को विशेषः स्यात् / अग्रे इति / मुग्ध इति कोषात्प्रथममुद्भिद्यमाना कुरबककलिका कान्तानखवत्पाटला भवतीति मधुश्रियो बाल्यम् / ततः प्रौढिमापद्यमानासु कलिकासु श्यामो वृन्तभागः स्फुटितत्वाद्विधावतिष्ठत इति यौवनम् / एवं बालाशोकमित्यादौ क्रमेण बाल्ययौवनचिह्नोपदर्शनमवसेयम् //