________________ "1 परिच्छेदः / सरखतीकण्ठाभरणम् / अथैतानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे / तेषां श्लेष इति प्रोक्तः संविधाने सुसूत्रता // 78 // यथा'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः / ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा__ मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति // 99 // अत्रैकासनसंस्थितयोः प्रियतमयोर्विलासिना ह्येका नयनमीलनकेलिकर्मणा वञ्चिता / अन्या तु वदनचुम्बनेन रञ्जितेति / सेयं संविधाने सुसूत्रता / श्लेषो नाम वाक्यार्थगुणः // - उक्ता इति / वृत्तकीर्तनं हेतुभावप्रदर्शनार्थम् / एतानेव श्लेषादिनामकानिति / एषामिति निर्धारणे षष्टी / 'वाक्यार्थशरीरभूतः श्लेषः प्रथमं लक्ष्यत इति / घटनाश्लेषः' इति सूत्रयित्वा ‘क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना' इति वामनेन व्याख्यातम् / अस्यार्थः-इदं कृत्वा इदं कर्तव्यमिति क्रमस्तत्रैव कौटिल्यं लोकातिगामिनी वक्रता / अवक्रयोः शब्दार्थयोः वचनमात्रत्वात् / अतिमात्रतया प्रतिभासाभावोऽनुल्वणन्वम् / कथमेवमर्थः संगच्छत इत्यनुपपत्तिसमाधानौपयिकविशेषनिवेशनमुपपत्तिः। तथा च क्रमेण कौटिल्येनानुल्बष्णतया उपपत्त्या योजनमर्थस्य श्लेष इति तत्र संविधानक्रमानुबणत्वेन सूत्रशब्देनोपात्ते खपदेन कौटिल्यमुक्तमघटमानस्येव वाक्यार्थम्य बुद्धिचातुर्येण घटनेति वाक्यार्थः / दृष्टेति / एका नायिका / अपरा नायिका च तत्सखी प्रच्छन्ननायकप्रेमपात्रं तेनैकासनसंगतिः / प्रियतमे इति तदनुरखनमेव जीवितसर्वस्वमिति मन्यमानस्य युगपत्प्रवृत्तिः / आदरेण निभूतपदन्यासता तथा भूत्वा युगपत्कराभ्यां नयनद्वयपिधानं लोकप्रसिद्धा केलिः। ईषदिति कन्धरामानं यथा चलते न तु शरीरमपि / अन्यथा चलनज्ञाने नायिकायाः कषायभावः स्यात् / निभृतरागोन्मुद्रणात् पुलकोद्गमः / अत एव प्रेम्णा खगोचरलोकोत्तरत्वाभिमानरूपेण तत्तदनेकभावोर्मिभिरान्दोलनं मनस उल्लासः / साधुवञ्चनं न जानातीत्यभिप्रायिकसपत्नीगतधिक्कारभावनया निभृतहासोन्मेषः / वञ्चनाचातुर्येण खमनीषितसंपादनं धूर्तता / तदेतद्व्याचष्टे-अत्रैकासनेति //