________________ 72 काव्यमाला / इति वर्णषट्वं कोमलं 'तं रिपूरः' इत्यनुस्खाररेफदी(रक्षरचतुष्टयं कठिनतरम् / अत्रापि तमिति मृदुप्रायनिवेशनेन कोमलकपालिकामुखभागसारूप्यं द्रढयतीत्यस्मदाराध्याः। एवं द्वितीयादिपादत्रये चतुष्कषट्कचतुष्कर्नालिकेरफलसाम्यमुन्नेयम्। कथं पुनरेवंविधः पाकः संभवतीत्यत आह-अत्रेति / अभ्यासेन निवृत्त आभ्यासिकः। काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरभ्यासः / असावपि कथं पाकविशेषो भवतीत्यत आह–सन्निवेशचारुत्वेनेति / सन्निवेशो रचना तस्यां चारुत्वम् / तदपि कथमित्यत आह-आवापोद्वापाभ्यामिति / संदर्भानुप्रवेशनमावापः। ततःसमुद्धरणमुद्वापः। केषामित्यत उक्तम्पदानामिति / उद्धृतानामिति बुद्ध्या पृथकृतानाम् / केभ्य इत्यत उक्तम्-प्रकृ. तिस्थादित्यादि / तेनायमर्थः-प्रकृतिस्थादिपदतोऽप्येतदेवोद्धर्तव्यं यद् घटनासौष्टवेन पर्यायपरिवर्तनं न सहते / भवति हि सहृदयानामेवमन्यत्पदं नास्तीति व्यवहारः / सोऽयं रचनासिद्धिविशेषः कथमन्यथा तज्जातीयमेव पदमन्यत्र संदर्भे निवेशितं न तथा खदते / अत एवासी वाक्यगुणः। काठिन्यं च संयोगैदीर्घेर्वा स्वरैर्भवति / यथात्रैवोदाहरणे रिपूर इत्यादौ / सुप्तिब्युत्पत्तिलक्षणस्तु वार्ताकपाकः कैश्चिदुक्तः, स तु सुशब्दतालक्षणगुण एव / एवमिति / यथा द्राक्षाफलं त्वच आरभ्य कोमलमन्तरा द्वित्रिचतुरास्थिसंपादितं किंचित्काठिन्यमेवं कश्चित्संदर्भमुपक्रमोपसंहारयोः कोमल एव मध्ये कठिन एव / संयोगदीर्घस्वरमात्रकृतमनाकठोरभावो मृद्वीकापाक इत्युच्यते / यथा-'अयि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धिवीरुधाम् / चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा // ', यथा च-'अनवरतनयनजललवनिपतनपरिपीतहरिणमदतिलकम् / वदनमपयातभृगमदशशिकिरणं वहन्ति लोलदृशः // ' अत एव कविकल्पलताकारादिभिरुक्तो नीलकपित्थपाकश्चतुर्थो नास्ति / यद्वच्च परिणतं सहकारफलमारम्भादेव कोमलमस्थानि तु कठोरप्रायमेवमपरः संदर्भो मुखादारभ्य मृदुरन्तरे कठिनतरः सहकारपाक इत्युच्यते / यथा---'कमलिनि कुशलं ते सुप्रभातं रथाङ्गाः कुमुदिनि पुनरिन्दावुद्गते त्वं रमेथाः / सखि रजनि गतासि त्वं तमो जीर्णमुच्चैसिति तरलितपक्षाः पक्षिणो व्याहरन्ति // ' अत्रैवोदाहरणेऽपि द्विधा कठोरत्वमवसेयम् / तेऽमी त्रय एव शुद्धपाकाः। व्यतिकरजन्मानस्तु भूयांसः / एत एवार्थपाकाः पञ्चमे प्रकारान्तरेण प्रतिपादयिष्यन्ते // . सूत्रकार एवार्थगुणप्रकरणे संगतिं करोति- . . उक्ताः शब्दगुणा वाक्ये चतुर्विंशतिरित्यमी // 77 //