________________ .1 परिच्छेदः।] सरस्नतीकण्ठाभरणम् / विशिष्टेति / लोकोत्तराः सन्ति हि भणितिप्रकारा लोकप्रसिद्धाः / यथा सुप्तोऽसीति प्रश्ने गृहे देवकुले वेत्यादि / एतत्प्रसिद्धिव्यतिक्रमेण तु या काचित्कविप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा। तथा च प्रतिभाकृष्टतया चमत्कारित्वाद्गुणत्वम् / अत एव कवय इत्याह / कविसहृदयानामेव तादृशोकिपरिचयसंभवात् / तथा हि-प्रकृतोदाहरणे कुशलप्रश्ने कुशलं वेति लोकप्रसिद्धमतस्तदेव वक्तुमर्हति / यत्तु तदपहाय जीवतीत्युपात्तमपरत्रापि प्रश्ने तथैवोक्तं तत्प्रतिभाकृष्टतया साभिप्रायमुन्नीयत इत्याह-अत्र कुशलमकुशलमित्यादि // संप्रति प्रकर्षकाष्टालक्षणं वाक्यस्य गुणं लक्षयति उक्तेः प्रौढः परीपाकः प्रोच्यते प्रौढिसंज्ञया / यथा'अभ्युद्धृता वसुमती दलितं रिपूरः / क्षिप्तक्रमं कवलिता बलिराजलक्ष्मीः / अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः // 98 // अत्र प्रकृतिस्थकोमलकठोरेभ्यो नागरोपनागरग्राम्येभ्यो वा पदेभ्योऽभ्युद्धृतादीनां ग्राम्यादीनामुभयेषां वा पदानामावापोद्वापाभ्यां सन्निवेशचारुत्वेन योऽयमाभ्यासिको नालिकेरपाको मृद्वीकापाक इत्यादिर्वाक्यपरिपाकः सा प्रौढिरित्युच्यते / तथा चैतद्वाक्यं नालिकेरपाक इत्युच्यते / एवं सहकारमृद्वीकापाके अप्युदाहरणीये इति // .... उक्तेरिति / उक्तेर्वाक्यस्यायं पाकः सा प्रौढिः / शब्दानां पर्यायपरिवर्तासहत्वं पाकः / यदाह-'यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् / तं शब्दन्यायनिष्णाताः शब्दपाकं प्रचक्षते // ' इति / प्रौढ इति / उपक्रमोपसंहारयोर्नियूंढः स चायं नायं नालिकेरसहकारमृद्वीकोपलक्षणैस्त्रिविधो गीयते / तद्यथा-नालिकेरफलं पक्वं त्वचि कठिनं शिरास्वविवृतकोमलप्रायं कपालिकायां कठिनतरं तथा कश्चित्संदर्भो मुखे कठिनस्तदनन्तरं मृदुप्रायस्ततः कठिनतरो नालिकेरंपाक इत्युच्यते / तथा हि-प्रकृतोदाहरणे प्रथमपादेऽभ्युद्धतेति वर्णचतुष्टयमारम्भे कठिनं 'वसुमती दलि'