________________ 7. काव्यमाला / खं वेश्म प्रतिगच्छतोरिति मुहुः श्रीशाङ्गिणोः सस्पृहं ___ सा प्रश्नोत्तरयुग्मपतिरुभयोरत्यायता पातु वः // 96 // " अत्र प्रत्येकपदानन्तरं नो विनिवेशात्कमाभेदो रीतिः // उपक्रमस्येति / यादृशी पदसंनिवेशत्वेनोपक्रम्यते तादृश्या वृत्तनिर्वाहः क्वचिद्विशेषशोभावहो भवति / अत एवात्र नात्यन्तनिर्वाहोऽभिमतः / एकादशवृत्तेरप्यभिप्रायसमग्रकाव्यजीवभूतत्वादेतस्या एव नातिप्रसङ्गोऽपि तथा प्रकृतोदाहरणे प्रथमोत्थिताया अब्धिदुहितुरव्याजसर्वाङ्गीणलावण्यमवलोकयिता कृष्णः खचक्षुषोः कृतार्थतां गमितवान् / इदानीमधरोष्ठमुद्राभेदेन यदि वर्णमात्रामपि भारती निश्चरन्तीमाकर्णयामि तदा श्रोत्रयोः सफलता भवेदिति मन्यते / न चेत्थमेव मुग्धाङ्गनानामालापः प्रवर्तते अपि तु नायकसन्निधौ भयादेवेति प्रथमं पृच्छति-ग्राव्णा नासि गिरेः क्षतेति / अनन्तरं च यदि न वक्ष्यामि तदा धृष्टामाकलयिष्यतीति जानत्या द्वयमुत्तरमौचित्यापन्नं स्यात् शिरःकम्प एकाक्षरं च। तत्राद्यः कालिदासेन प्रयुक्तो 'मूर्धकम्पमयमुत्तरं ददौ' इति / द्वितीयं कविना विनिवेशितम्-नेति / एवं श्रुतजल्पितामृतस्तदनुबन्धेन कृतकृत्यमिवात्मानं मन्यमानोऽधिकत्रासहेतुं स्मारयन्पृच्छति-पयसेति / तदिदमुक्तम्-आर्तेति / प्रकारान्तरेणोत्तरदानासंभवात्पुनरप्याह-नेति। तदनन्तरं व्याजरसायाः कियदधिकवचनश्रवणोत्कण्ठितः सर्व लोकप्रसिद्ध भयहेतुं स्मारयन्पृच्छति-म्लायितेति / अभिमतस्यानिष्टं स्वप्नेऽपि न सज्जत इति दृष्टासीति नोक्तम् / एवं प्रसिद्धमपि वचनपल्लवनेन समस्तमुग्धाङ्गनाप्रसिद्धेन वचनोन्मुद्रणप्रकारेण पृच्छति-त्वदनुगेति / सर्वाकारेणोत्तमतामभिज्ञायमानो दृप्तः खवेश्म प्रत्येव गतवान् न तु पृष्टवानिति / तदिदं सर्वमभिप्रेत्य व्याचष्टे, अत्रेति // विशिष्टा भणितिर्या स्वादुक्तिं तां कवयो विदुः // 76 // यथा'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् / . पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति // 9 // अत्र कुशलं तस्या इति पृष्टे कुशलमकुशलं वेति वक्तव्यै योऽयं जीवतीत्याधुक्तिभङ्गया जीवितमात्रशेषताप्रतिपादनप्तकारः स काव्ये शब्दगुणेषुक्तिसंज्ञां लभते //