________________ * 1 परिच्छेदः / सरखतीकण्ठाभरणम् / यथा- .. ' 'वराहः कल्याणं वितरतु स वो यस्य शशभृ___ कलाकोटीकान्तं क्रमविगलदभ्युद्धृतिभिया / मिथः संमूर्च्छद्भिश्चतुरुदधिकल्लोलपटलै रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती // 95 // अत्र पूर्वार्धे खरस्यारोहादुत्तरार्धे चावरोहाद्गतिः // गतिरिति / केचिद्व्याचक्षते। यतीनामारोहावरोहौ विवक्षितौ क्वचित्कविशक्तिवशाद्यद्यद्यारूंढा अवरूढा इव प्रकाशन्ते / यथा-'भुवो नीचैर्नीचैरवटपरिपाटीषु पततां स्फुरत्यागर्वागखिलभुवने भोगितिलकः / क्रमादुच्चैरुच्चैगिरिशिखरभाजामपि नृणामयं दूरे दूरे भवति भगवानम्बरमणिः // ' अत्र यती नानारोहावरोहौ तिलतन्दुलवत्प्रकाशेते / इयं तु वृत्तौचिती वक्ष्यते / तथा च द्वितीये संगता स्यात् / तम्मादयमर्थः-खराणामकारादीनामुपयुपरितया बोधः संनिकृष्टानामिव प्रकाशनं गतिरिति / तथा च व्याख्यास्यति-खरस्येति / तथा हि प्रकृतोदाहरणे वराहः कल्याणमित्यत्राकारद्वयं तुल्यजातीयं निर्दिश्य स वो इत्यत्रोकारेण तुङ्गत्वमिव विधाय द्वितीयपादोपक्रमे कलाकोटीकान्तमित्यत्राभिन्नजातीयारोहपरम्परा विहिता। उत्तरार्धे तु तथा नास्ति / शेते इत्यत्रापि न सोल्लेख आरोहः सोऽयमानुभविको गुणः टोकार्धश्लोकपादश्लोकांशक्रमेण नरसिंहवद्भवति / अत्रोपलक्षणानयाद्यमुदाहरति-अत्र पूर्वार्ध इति / क्रमैरितस्ततश्चरणविन्यासैर्विगलन्ती असंपद्यमाना याभ्युद्धतिरभ्युद्धरणं तस्या या भीर्भयं तयेति केचित् / अन्ये तु वदन्ति-क्रमेण विगलदभ्युद्धतिभयमूर्ध्वनयने स्फुटनादिभयं यस्याः सा क्रमविगलदभ्युद्धृतिभियेति // उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते / / यथा'ग्राव्णा नासि गिरेः क्षता न पयसा नार्तासि न म्लायिता न श्वासैः फणिनोऽसि न त्वदनुगा नायासिता कापि न /