________________ काव्यमाला / / वसानं सामर्थ्येन संभवतीति नाध्याहारशङ्का / शक्ता इत्यादिक्रियापि सामर्थ्येनावसीयते तदेतत्सर्वममिप्रेत्याह-तुलाविधृतवदिति // .... __ भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् / यथा'एोहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् / आरोप्य वा हृदि दिवानिशमुद्वहामि ..वन्देऽथवा चरणपुष्करकद्वयं ते / / 94 / ' अत्र हर्षवशादनौचित्येनापि 'वन्देऽथवा चरणपुष्करकद्वयम्' इत्यादीनामुक्तत्वाद् भाविकत्वम् // भावत इति / भावनादृशापन्ना चित्तवृत्तिर्भावः / भावना वासनाव्याप्तिरित्यनर्थान्तरम् / तथा घच्यते-अनेन गन्धेन रसेन वा सर्व भावितमिति / हर्षादिभावितचेतसो हि वीचिप्राया उक्तिभेदाः प्रादुर्भवन्ति येरप्रत्यूहमेव भावोऽभिव्यज्यते तदिदमुक्तं या भावतो वाचः काव्यरूपायाः प्रवृत्तिर्निष्पत्तिः सैव भाविकम् / भावप्रधानो निर्देशः। तथा हि-प्रकृतोदाहरणे एहीत्येकेनैव युष्मदर्थाविनाभाविनाभिमुखीकरणे वृत्ते द्वितीयस्य यदुपादानम् , पूर्णचन्द्रेति यदग्रिमक्रियाखनुपयुक्तस्यैवाभिधानम्, चुम्बामीति करिष्यमाणस्यापि यो वर्तमानोपदेशः, चुम्बामीत्यत्र विशेषणमनुपादाय परिष्वज इत्यत्र चिरमिति यद्विशेषणोपादानम् , त्वमिति योग्यार्थस्यापि प्रयोगः पूर्वोपात्तवदुत्तरक्रियास्पर्धितया यदेकस्यैव वहनस्य भाषणमेव समस्तसमकक्षतयैव यद्वहनाभिधानम्, वत्सेत्यभिधाय चरणौ वन्द इति या विरुद्धोक्तिः, यच्च ते इत्यस्यावगतार्थस्यापि वचनम्, तत्सर्वमधर्मसिद्धमेवेति भावार्थस्य निष्पादितया खादहेतुर्भवति / प्रवर्तन्ते हि लौकिकानां स्नेहार्थानामुकलिकाप्राया वाचः खदन्ते च / यथा-'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयोरसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः' इति / तदेतदभिप्रेत्य व्याचष्टे--अ. त्रेति / उद्भटत्वात्तेन शेषाण्युपलक्षयति-अनौचित्येनापि वन्द इति // . गतिर्नाम क्रमो यः सादिहारोहावरोहयोः // 75 // .