________________ '1 परिच्छेदः। सरस्वतीकण्ठाभरणम् / समासेनाभिधानं यत्स संक्षेप उदाहृतः। यथा___ 'स मारुतिसमानीतमहौषधिहृतव्यथः / लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः // 92 // अत्र कथाविस्तरप्रतिपाद्यस्यार्थस्य प्रकृतसंग्रामरसविच्छेदाशङ्कया श्लोकार्धमात्रेणोक्तत्वात्संक्षेपः // समासेनेति / अस्ति कश्चिद्विशेषो यत्र वाक्यसंकोचः प्रकृतौचितीवशेन चमत्कारकारणम् / तथा हि-स मारुतीत्यादौ मारुतिना यदोषधेरानयनम् , यच्च तया व्यथाहरणम् , तदुभयमपीतिहासकथाविस्तरेण प्रतिपादितमिह तु श्लोकार्धमात्रेणेति शब्ददत्तभर एवायं गुणो यद्यपि भवति, तथापि यावद्विवक्षितोपादानकाव्यरूपेणार्थसंकोचो वक्तव्यः / स च तथाविधवक्रोक्तिसंक्रोच एव भवतीत्युक्तावेव संकोच उल्लिखति / कथमयं. संकोचः प्राप्तोचितभाव इत्याह-~-प्रकृतेति / अत एवोपक्षिप्तमपीतिहासार्थमपहाय त्वराविष्टेन कविना प्रकृतमुत्तरार्ध एवासंहितं पूर्वोत्तरार्धसामन्जस्याय संक्षिप्यैव प्रकृतमप्युक्तम् // यावदर्थपदत्वं च संमितत्वमुदाहृतम् // 74 // यथा'केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि / वाचि वस्तुनि चाप्यन्ये नान्ये वाचि न वस्तुनि // 93 // ' अत्रार्थस्य पदानां च तुलाविधृतवत्तुल्यत्वेन संमितत्वम् // यावदिति / यावन्ति वर्णानि विना प्रकृतमनुसर्तुमेव न शक्यन्ते तावन्मात्रमयत्वं वाक्यस्य संमितत्वम् / अतः संक्षेपाद्भेदः / कवेः शक्तिव्युत्पत्तिभ्यामसत्यपि पल्लवे कदाचिद्धटनालावण्यमुन्मिषत्येव / यथा पूर्वमुदाहृतम्-'का त्वं शुभे कस्य परिग्रहो वा' इत्यादि / अर्थव्यक्तिसंकरशङ्काप्यत एव निराकृता / 'अस्त्युत्तरस्यां दिशि देवतात्मा' इति केचिदुदाहरन्ति तदयुक्तम् / अनेन नामपदयोः पल्लवरूपत्वात्संमितत्वाभावे कथमाभासत्वं भवतीति विस्मृतव्यमिचारिगुणप्रकरणस्य भाषितमुपेक्षणीयम् / केचिदिति सर्वनाम्न एवाभिमतकविविशेषे पर्य