________________ काव्यमाला / प्रतीतिस्तत एव भवन्ती ध्वननमुपस्थापयतीत्यादिकमस्माभिः काव्यप्रकाशविवरणे प्रपञ्चितम् / इह तु ग्रन्थगौरवभिया विरम्यते // ......... व्यासेनोक्तिस्तु विस्तरः // 73 // यथा .. 'जनः पुण्यैर्यायाजलधिजलभावं जलमुच स्तथावस्थं चैनं निदधतु शुभैः शुक्तिवदनैः / ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यथा रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति // 91 // ' . . अत्र कथमहं त्वत्कुचतंटे विलुठामीत्यभिप्रायस्य विस्तरेण प्रकाशितवादयं विस्तरः // * व्यासेनेति / यत्र स्तोकेऽपि वाच्ये वचनपल्लवश्चमत्कारकारी तत्र स एव गुणकक्षाधिरोहणक्षम इति शब्दगुणेषु युक्तो विवेत्तुमत एवोक्तिं विशेष्यतया निर्दिशति / जनः पुण्यरित्यादौ कथमहमित्यादौ निर्दिष्टोऽपि वक्राभिप्रायरूपोऽर्थ उक्तिपल्लवेन प्रकर्षमानीयते / तथा हि जन इति तटस्थोक्त्या न ममेदृशानि भागधेयानि येनाहत्य मनो निर्वहति / पुण्यैरिति बहुवचनेनानेकजन्मोपात्तानामेवेदं फलम् / यायादिति संभावनाभिप्रायेण लिङा मुक्ताफलपरिणतियोग्यजलधिजलप्राप्तिसंभावनापि कस्यचिदेव धन्यजन्मन इति प्रकाशिते कोऽपि कारणप्रकर्षः / जलमुच इत्यनेन येषां न जलदानमेव व्यापारः, अपि तु विश्वसंतापच्छिदुराणामन्योपकारप्रवणतया शुक्तिमुखपर्यन्तमपि नयनमुपपद्यत इति / तथावस्थामित्यनेन यदैव स्मरावस्था तदैव जलधरैः पानमाशंसामात्रगोचरो न तु पूर्ववत्संभावनामागोचरः, अत एव शुभैरिति समयविलम्बनस्य प्राक्तनपुण्यमानहेतुकत्वादित्यादि खयमवसेयम्। एतेन ‘पदार्थे बाक्यरचनम्' इति यदन्यैर्गुणान्तरमभिहितं तद्विस्तारमेकमेवं / घटनासौष्ठवमात्रोपयुक्तस्तु पल्लवो विशेषगुणेष्वस्माभिरभिधास्यते / त्वत्कुचतटे लुण्ठनमत्यल्पपुण्यस्य न संपद्यत इत्येतावानेवार्थो विवक्षाविषय इति कार्यविकासस्यैव चमत्कारार्पणे प्रागल्भ्यमिति शब्दप्रधानकतया युक्तमत्र परिसंख्यानमिति // 1. 'शुक्तिवदने' इति मूलपुस्तकपाठः