________________ 65 *1 परिच्छेदः / सरखतीकण्ठाभरणम् / अर्थध्वनिश्च / येन शब्द एव ध्वन्यते स शब्दध्वनिरभिमत इति केचित् , तन्न / शब्दस्यैव वन्यतानङ्गीकारात् / नाभ्यां पुण्डरीकधारणमित्यादि व्याख्याग्रन्थभङ्गप्रसङ्गाच्च / तस्माच्छब्दाश्रितं ध्वननं शब्दध्वनिराश्रितं चार्थध्वनिरिति वक्तव्यम् / प्रभूतध्वनिसंबद्धपदकदम्बकस्य गाम्भीर्यम् / अथवा ध्वनयतीति ध्वनिः शब्दात्मको यत्रास्ति पदसमुदायस्तद्गाम्भीर्यम् / तथा हि पुण्डरीकपदप्रस्तावात्सितच्छत्रे नियताभिधानशक्तिकं कांस्यतालानुस्खानस्थानीयां सिताम्भोजव्यक्तिमुपजनयच्चोपलभ्यते / अनेकार्थनियताभिधानशक्तिकत्वाच्च / तदाह-'अनेकार्थस्य शब्दस्य वाचकत्वे नियबिते / संयोगाद्यैरवाच्यार्थधीकृयातिरञ्जनम् // ' इति / एवं विक्रमादिषु / तथापि विक्रमः पौरुषं परिशिष्टः पादविक्षेपश्च / चक्रं चक्रवर्तिचिह्न रेखासंनिवेशलक्षणमायुधविशेषश्च / अभ्युद्धरणं सम्यग्लाभपालनप्रापणमुत्थापनं च / लक्ष्मीः संपद्देवताविशेषश्च / ज्यायान् प्रशस्यतरो वयोज्येष्ठश्च / इदमेवाभिसंधाय दिवौकस्पतेरित्यन्तं व्याचष्टे-अत्रेति / तदपीत्यपिशब्देन विरोधद्योतिना हरिभावमाचरन्निति प्रतीयते पुण्डरीकधारणादेरुभयतुल्यत्वान्मौलावित्यादिविरुद्धम् , अतस्तद्विपरीतस्थानीयं विष्णौ ध्वनयत्प्रसिद्धिबलानाभ्यादिकमेव ध्वनयति / प्रसिद्धिरपि हि विशिष्टार्थप्रतिपत्तौ कारणमेवेत्यभिप्रेत्य शब्दध्वनिप्रस्तावेऽप्यन्यद्याख्यातवान् / अन्यथा तु प्रकृतासंगतिशङ्कया न वाच्यार्थपुष्टिः स्यात् / सोऽयं विरोधरूपमूलः प्रतीयमानव्यतिरेको वाक्यार्थः शब्दध्वनिश्चात्र जीवभूतः / विश्वान्तःकरणकचोर इत्यनेन त्रिभुवनमनोहरता / दिवानिशमन्तःकरणानि चोरयन्नभ्यासकौशलादिवालन्तप्रसिद्धानि नारायणचिह्नानि गोपायसीति प्रतीयमानोत्प्रेक्षा / ननु वस्तु वनिं शब्दशक्तिमूलमेके न मन्यन्ते / कथं तर्हि 'पंन्थिअ न एत्थ सत्थरमस्थि मगं पत्थरत्थले गामे / उनअपओहरं पेक्खिअ उण जइ वससि ता वससु // ' इत्यादी वस्तुवर्णनं? न ह्यत्र श्लेषन्यायो न वा समासोक्तिन्यायः संभवति। किं चालंकार बनावपि शब्दशक्तिरेवोपयुक्तत्यक्षुण्णः शब्दध्वनिः / ये तु वदन्ति शब्दस्याभिधाव्यतिरिक्ता बृत्तिरेव नास्तीति, लक्षणापि तैरनङ्गीकरणीया स्यात् / न चानङ्गीकर्तव्येति वाच्यम् / “गङ्गायां घोषः" इत्यत्र सप्तम्यनन्वयापत्तेः / प्रकृत्यनुगतखार्थाभिधानं हि विभक्तीनां व्युत्पन्नमिति घोषप्रतियोगिकाधिकरणभावयोग्यः कश्चिदर्थो गङ्गापदस्य वक्तव्यः / तथा च कान्या नाम लक्षणा / एवं पुण्यत्वादि१. 'पथिक नात्र स्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे / उन्नतपयोधरं प्रेक्ष्य पुनर्यदि वससि तद्वस // ' इति च्छाया. 5 स० क.