________________ काव्यमाला। . . यथा - केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि / . .. धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः // 89 // अत्र श्रुतावगतवाक्यार्थस्य सृजति-संहरति-शास्ति-स्तूयते इति शब्दानामन्तःसंजल्परूपेण सूक्ष्मतया सूक्ष्मत्वम् // .: अन्तरिति / यथा करितुरगादिरूपकाणां पाषाणशिलादावभिव्यक्तमवस्थितौ सूक्ष्मरूपता तथा शब्दानां श्रूयमाणानामपि कथमन्यथा वाक्यार्थभावनदशायां शेषनियमेनोन्मेषः। केवलमित्यादौ * सृजति-संहरति-शास्तयो धातवः कर्तर्येव भगवद्विषये प्रयुज्यमानाः प्रत्ययान्प्रयोजयन्ति न कर्मणीति वाक्यार्थो यदा भाव्यते तदैवायं सृजति संहरति शास्ति, न तु सृज्यते सहियते शिष्यते इति शब्दाः प्रकाशन्ते / एवं स्तोतिर्विपरीतकारकः / अत्र स्तौतिः कर्मण्येव प्रत्ययप्रयोजको न कर्तरीति वाक्यार्थभावनासमय एव नायं किंचित्तौति किंतु सर्वैः स्तूयत एवेति शब्दा उन्मिषन्ति / तदेतदाह-अत्र श्रुतावगतेति / यावदेव वाक्यं श्रूयमाणमवगम्यते तस्यैव भावनापल्लवः पश्चादवसीयत इति वटबीजन्यायमुपोद्दलयति / सोऽयं सहृदयप्रतीतिसाक्षिकोऽर्थः // ध्वनिमत्ता तु गाम्भीर्यम् यथा___'मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रम चक्राकं वह पादयुग्ममवनी दोष्णा समभ्युद्धर / लक्ष्मी भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पते. विश्वान्तःकरणैकचौर तदपि ज्ञातं हरिः खल्वसि // 90 // . अत्र नाभ्यां पुण्डरीकधारणं परिमितविक्रमत्वं चक्राङ्कितकरत्वं दंष्ट्रया वसुधोद्धारणं वक्षःस्थलनिवेशितल मीकत्वमिन्द्रावरजत्वं च ध्वनयतीति गाम्भीर्यम् / / ध्वनिमत्तेति / ध्वननं ध्वनिर्व्यञ्जनात्मा व्यापारः / स द्विविधः-शब्दध्वनिः