________________ "1 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / मन्वयः केनापि प्रकारेण घटित इति पूर्ववद्बोद्धव्यः / तदेतदाह-अत्रेत्यादिपदमभाभ्यां संबध्यते / तेन जीवितवर्गो जनिवर्गश्चाभिमतः। मतिः सकृदेवावृत्त इति नोक्तः भूयसा हि लोके व्यपदेशो दृश्यत इति // समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम् // 72 // यथा'प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालीपरिणतिम् / परिम्लानप्रायामनुवदति दृष्टिः कमलिनी मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते // 88 // ' * अत्र प्रतीच्छति-अवतरति-अनुवदति-इत्यादिचेतनक्रियाधर्माणामचेतनेष्वधरादिषूपचारेणाध्यारोपणं समाधिः // समाधिरिति / सम्यगाधानमारोपणं समाधिः / सम्यक्त्वं च वक्रतालोकातिगत्वं न तदधिकभावः / तदिदं लक्षणे स्फुटम् / 'कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च' इत्यादौ व्यभिचाराच्च। तेन संबन्धिता न धर्मविशेषणमत्राभिमता। अलंकाराद्भेदश्चतुर्थे वक्ष्यते-प्रतीच्छतीति / प्रत्येषणं दीयमानस्य ग्रहणं चेतनधर्मः स विरहवत्या अचेतनेऽधरे समारोपितः। किसलयकान्तिमितो मन्दीभूततामवगमयति / देयस्य दातुरपसरणेऽन्यत्र संक्रान्तौ च प्रत्येषणनिर्वाहाच्च / तथा चाशोककिसलयेभ्योऽपि कोमलपाटलत्वमधर स्येति माधुर्यपोषः / तदभिमुखप्रवर्तनमवतरणमपि चेतनधर्मः सोऽचेतने कपोले समारोपितः किंचित्पाण्डुतामवद्योत. यति / न च प्रत्येषणवत्सामस्त्येन ग्रहणमपि तु संमुखीभावमात्रमित्याशयात् / तथा च पूर्ववन्माधुर्य पुष्णाति, अनुवादोऽपि चेतनधर्म एव सोऽचेतनायां दृष्टावारोपितः पर्युषितकमलच्छायामखण्डामेवात्र बोधयति / परप्रकर्षाभिमुखेऽपि विप्रलम्भे कदाचित्संकल्पोपस्थितप्राणनाथायां दृष्टौ कान्ती भवतीति प्रायःपदेन सूचितम् / स्पर्शस्य माधुर्यविषयेऽसंभवात्स्पृशतीत्यप्यारोपः। प्रथमविग्रहशोभाविर्भावमभिव्यनक्तिचेतनक्रियेति / प्रकृतापेक्षया क्रियाक्रियावतोः सादृश्याभावान्नेयं गौणी किं तूपचरितैव शुद्धत्याहै-उपचारेणेति / एतेन रूपकादिभ्यो भेदः समर्थितः // . अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते /