________________ काव्यमाला। यस्त्वामेव न वन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति न ध्यायति // 8 // अत्र अजीवनिः-अजननिः-इत्यादीनां सुबन्तानां वन्दते-यजतेइत्यादीनां तिङन्तानां च व्युत्पत्तिः सुशब्दता // व्युत्पत्तिरिति / विशिष्टा उत्पत्तियुत्पत्तिः / सुबन्तानां तिङन्तानां च बहूनामपि चकारादिमन्तरेण घटनासौष्ठवार्पकतया चमत्कारकारित्वमित्यर्थः / 'आक्रोशे नज्यनिः' / किमर्थमिदमाशास्यत इत्यत आह-जीवतोऽवमान इति / जीवतोऽवमाननं माभून्मरणमपि तदपेक्षया वरमित्यर्थः / आयुःकर्मवशात्तथाभूतोऽपि जीविध्यतीति यदि तदाऽजननिरनुत्पत्तिरेव भूयात् / कुत इत्यत आह-किमिति। जनिनेति पुंलिङ्गनिर्देशश्चिन्त्यः इकः स्त्रीप्रकरणे विधानात् / जनिरुत्पत्तिरिति साहचर्याच्च / कस्येदं सर्वमाशास्यत इत्यत आह-यस्त्वामेवेति / त्वदन्यदेवताप्रवणस्य जन्मादिकं विफलमिति वदतः कोऽपि भगवतीविषये भक्तिप्रकर्षोऽवसीयते। अन्ये तु व्याचक्षते कवेः पदपरिचयान्तरी व्युत्पत्तिः / पदं च सुप्तिङन्ततया द्विविधम् / तयोरेकमुभयं वा यत्र निवेश्यमानं व्युत्पत्तिमभिव्यनक्ति तत्र सौशब्द्यमिति लक्षणार्थः। तथा हि-अजीवनिरिति सोपाधिसिद्धकृदन्तं जीवितमुपन्यस्य तदेव जीवस्य जीवत इति निरुपाधिसिद्धसाध्यार्थाभिधायिकृदन्तमुपन्यस्तवान् / मातरवमेति मातृत्वमुभयथोत्प्रेक्षितवान् / द्वितीयपादे जनिजीवमिवोपक्षिप्य जनिना जन्मेति तमेव प्रकारद्वयेनोपात्तवान् / एकैकधातुप्रपञ्चानां सुबन्तानां दुर्घटमेकसंदभप्रवेशं तत्तदुचितक्रियासंगमेन विहितवानिति सुबन्तव्युत्पत्तिरिति दिक् / अवमेति अस्त्वित्यनुषज्यते। वृथादिवा पूर्वेणापि संबध्यते / अथोत्तरार्धे तिङन्तव्युत्पत्तिः / तत्र पूर्वप्रकारभेदो न घटते। अतः साभिप्रायाणामेवोत्प्रेक्षणं सा वाच्या। तथा हि-वन्दत इति जायमानमात्राभिवाद्यतया त्रिभुवनमातृता / यजत इति समस्तदेवतारूपत्वम् / उपैतीति सर्वोपगम्यतया जगच्छरण्यत्वम् / आलोकत इति विश्ववर्ति यावन्मनोहरत्वम् / लौतीति समस्ताभिमतदायिता। मन्यत इति निखिलज्ञेयखरूपता / मनुत इत्यवधारणीयतया तत्त्वात्मकता। अध्येतीति कान्तारादिस्मर्तव्यतया दुर्गादिभेदेन प्रपश्यमानत्वम् / ध्यायतीति निदिध्यासनविषयतया प्रत्यग्ज्योतीरूपतेति परापरभेदभिन्ना भगवती स्तुता भवति। मन्यते मनुते इति यथा सामान्यविशेषाभिधायिनौ तथाध्यति ध्यायतीत्यपि / तिङन्तानां च दुर्घटोऽपि परस्पर