________________ 1 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / ___ अत्र सौजन्याम्बुनिध इत्यादीनां प्रियार्थानां पदानामुपादानं प्रेयः // प्रेय इति / परप्रियाख्यानं चाटूक्तिस्तत्र यद्विधीयते स प्रेयो नाम गुणः किं तु क्रियत इत्याह-प्रियतराख्यानमिति / प्रत्ययांशे तात्पर्य लोके साधारण एव प्रिय इत्युच्यमाने यस्तत्रासाधारणः प्रकर्षोऽवसीयते स इत्यर्थो भवति / एतेन लक्षणपदे ईयसुन् व्याख्यातः। उक्तिखण्डैरुपचितोऽर्थः सन्नसन्वा भवतु कविप्रतिकृष्टा सूक्तिरेक एव त्रिभुवने भूयसीनामपामधिष्ठानम् / एवं भवानपि तत्स्थानीयस्य सौजन्यस्येति प्रतीयते / वुधप्रियेति बहुव्रीहितत्पुरुषाभ्यामर्थद्वयमुपात्तम् / सूक्ष्मगुणप्रतिबिम्बभासितया यावदभिमतदायितया च प्रीतिध्वनितया च प्रकर्षमर्पयतिगुणप्राकारेति / यथा प्रकारे उपर्युपरि शिलादीनामवस्थितिरेवमहमहमिकया त्वयि गुणानाम् / अथवा यथा प्राकारः कलत्रावेक्षणस्थानमेवं भवानपि गुणानामेव प्रोच्यते। धर्मद्रुमप्रारोहेति। प्रारोहः प्ररोहोऽङ्कुरः / तेनातिजरतो भनानेकविक्रमादित्यादिशाखस्य धर्मतरोस्त्वमग्रिमः संतानोऽवलम्बः / यदि वाधोमुखी लम्बमानलता प्ररोहः / तथा च धर्मतरोरुपार ब्रह्मलोकादिबद्धविस्तारस्य भगवद्रूपः प्रारोहो भूपृष्ठमधितिठतीति कोऽपि प्रीती प्रकर्षः / प्रतिपन्नवत्सलेति / उपकर्तव्यतया प्रतिपन्नः खीकृतस्तत्र वत्सलो झटिति स्नेहार्दान्तःकरणस्तेनाङ्गीकृतभङ्गभीरुतामात्रेण पुरुहूतादिवन्नापि श्लेषाविश्लेषान्विततया बलिकर्णादिवत्किं तु भवान् सिन्धुरिव वाञ्छितादिकमुपकारं करोतीति समानं पूर्वेण / महात्यागिन्निति / त्यागिनामपि यः पूज्यः स महात्यागी तेन नूनं दधीचिप्रभृतयो विश्राणितार्था अपि न तव तुल्यतामारोढुमीशत इति पूर्ववत् / विवेकाश्रय इति / यथाकर्तव्यताज्ञानं विवेकस्तस्याश्रयो विश्रान्तिस्थानं नादि त्वं मूलस्तम्भो नाभूस्तदा कमाश्रित्य विवेकप्रासादः पदमारोपयेदित्यादिकं स्वयमहनीयमिति तदेतत्सर्वं सूचयन्नाह-प्रियार्थानां पदानामिति / प्रियार्थानां प्रीतिप्रकर्षार्थानाम् // - व्युत्पत्तिः सुप्तिडां या तु प्रोच्यते सा सुशब्दता / यथा'तस्याजीवनिरस्तु मातरवमा जीवस्य माजीवतो * भूमाद्वाऽजननिः किमम्ब जनुषा जन्तोवृथा जन्मनः / ... 1. 'जनिना' इति सटीकपुस्तकपाठः.