________________ ... काव्यमाला. घोष उदचरदिति भगवतस्त्रैलोक्यग्रहे निरङ्कुशप्रभावः सद्यःपदेन सूच्यते / अथवा चेदागमानामात्मलाभानन्तरमेव परमेश्वरस्तुतिरूपतात्पर्यावसानमिति सवस्या अपि श्रुतेः परमेश्वरप्रवणत्वमनन्यसाधारणभक्तिप्रबतां च कविरभिप्रेति / पुरारेरित्यनेन संहारिरूपता भगवतः प्रकृतपोषानुगुणा प्रकाशिता // और्जित्यं गाढवन्धता। यथा'अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुनः किंचिल्लीलोपचितविततः पुञ्जितश्योच्छ्रितश्च / धूमोत्पीडस्तरुणमहिषस्कन्धनीलो दवाग्नेः खैरं सर्पन्सृजति गगने गत्वरानभ्रभङ्गान् / / 85 // अत्र गाढबन्धस्य स्पष्टमेव प्रतिभानादौर्जित्यम् // और्जित्यमिति / ऊर्जितो महाप्राणस्तस्य भाव और्जित्यं तत्र संदर्भस्य महाप्राणता गाढत्वमन्तरान्तराविलम्बितनयद्भिः प्रयोगैः कुण्डिलत्वम् / गुणसामान्यलक्षणादतिप्रसङ्गो नास्ति। तथा हि-प्रकृतोदाहरणे प्रथमपादे विच्छिन्नभुग्न इत्यत्र तालव्यद्वयम् / कण्ठ्यदन्त्यसंयोगौ प्रस्फुटोन्मिश्रौ / अन्ये मृदवः। द्वितीयपादे औष्टयोपध्मानीयतालव्यचतुष्कसंयोगाः प्रस्फुटाः। खरव्य जनमध्ये विसर्गपाठ उभयसंज्ञाभिप्रायेणेति दुर्गसिंहः / तेन तदादेशस्यापि व्यञ्जनत्वम् / अन्ये मृदवः तृतीयपादे दन्त्योष्ठ्यदन्त्यकण्ठ्यसंयोगा उन्मिश्राः / अन्ये मृदवः / चतुर्थपादे रेफान्तसंयोगा मृदवो य इति न कापि कठोरता प्रतिभासते / तथा च–प्रथमतृतीयाभ्यामत्र द्वितीयचतुर्थयोर्गाढत्वम् / तथा-'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्-' इत्यादेरगाढप्रथमतृतीययोरप्यस्ति धारणी महाप्राणता व्यक्तेत्याह-अत्रेति // : प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते // 71 // यथा- .. 'सौजन्याम्बुनिधे बुधप्रिय गुणप्राकार धर्मद्रुम प्रारोह प्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय / / लक्ष्म्यावास मनखिनीमनसिजव्यापारदीक्षागुरो / .. श्रीमन्मुञ्ज किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि // 86 //