________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / द्योत्यते / शत्रूणामिति बहुवचनेन यदैकावस्कन्दमुद्दिश्यायं प्रचलति तदा सर्वेषामियं दशा भवतीति प्रत्याय्यते / अत एवासमासः सजीवः / वियोगवेदनादूनमानसानामुद्गतोऽपि बाष्पस्रावादन्तरेव विच्छिद्यत इति लवपदेन ध्वन्यते / पुनः समागमाशंसनशीलानाममङ्गलभिया बाष्पस्तम्भो लवपदरहस्यमित्येके मन्यन्ते / अन्यस्य बाष्पस्य निर्गमनानुपपत्तौ पुटयोरार्द्रभावमात्रम् / शुभ्र इति यत्र चन्द्रातपेन पल्लविताः कान्तयः क्षणदाविलासविहारेषु कामपि रसमात्रामुत्कर्षयन्तीति व्यनक्ति / तदनन्तरमेव व्याप्यामित्याह-नवाम्भोरुहीति / पूर्ववत्संभोगोद्गारः / सशाद्वल इत्यनेन रतिकुतूहलोत्कण्ठितानामद्रिशृङ्गारोहणश्रान्तानां तदेवास्तरणमिति प्रकटीक्रियते / विवलितग्रीवतया च पद्भ्यां पलायनमेव न तु शरीरवलनमपीति / शृङ्गाराद्भयानक एव रसः स्थायीति ध्वनितम् / तदेतत्सर्वमभिप्रेत्याह-अत्रेति // अरीतिमत्करणोक्तमभिप्रेत्यौजोलक्षणमाह- . ओजः समासभूयस्त्वम् यथा'जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु स्रवदमृतनिवृत्तप्रेमभावैः कपोलैः / विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः // 84 // " अत्र भुजगरजु ग्रन्थीत्यादिना समासभूयस्त्वादोजः // : ओज इति / वैपुल्यवृत्तैर्बहुशब्दस्ययमुनि भूय इति रूपम् / तथा च समासस्य भूयस्त्वं वैपुल्यविकटत्वमिति यावत् / न चैवं गाडीया रीतिरेवेयमिति वाच्यम् / क्वचित्समासभूयस्तामात्रस्यैवौचितीवशेन विशेषशोभावहत्वात् / यथा'वाद्यन्ति दिग्गजगण्डकषणैर्भग्नस्रस्ता' इति / न च समासाभावो नोचितः / नह्येक एव समासो रूपभेदमादाय गुणत्वमनलंकारत्वं च प्रयोजयतीति किमनुपपन्नम् / एवं प्रकृतोदाहरणेऽपि / तथा हि-परिणताः परिणामं गताः। बहूनां कल्पानां ब्रह्माण इति चतुर्णा पदार्थानां पिण्डत्वे चत्वारिपदानि समबहुव्रीहिरूढिभिर्भुजगरज्जुभिरिति ग्रन्थिदृढताबोधनाय रूपकम् / अत एव निवीत्युपसर्गस्तात्पर्यवान् / सद्यो विरचितनुतीत्यनेन कपालानामसाधारणो व्यापारः / बन्धो हि ब्राह्मरूपस्ताल्वादिकमन्तरेण न निष्पद्यते / जीवनानन्तरमेव त्रासावेशात्स्तुतिरूप एव ब्रह्म