________________ ... काव्यमाला / (सार)बलेनावगम्यते / उन्मादगृहीतोऽपि वृक्षारोहणादिकमसमञ्जसमव्यवस्थितं च करोति / वन इत्यनेन यत्र सर्वथैव प्रतीकारासंभव इति निरङ्कुशोन्मादचेष्टितमेवोपबृंहयति / नगैः स्पर्धते पर्वतोच्छायमनुकरोतीति दूरप्रसृत उन्मादः। खं व्यालेढीत्यत्रापि तथैवाभिप्रायः। किं तद्यदिति न शक्यते गणयितुमुन्मादचेष्टितानीति प्रकाशन्तेत्येति प्रन्थिलाविच्छेदात् / प्रसारणस्य पर्यवसानं श्वेत्यनेन प्रविशतीतिसंकोचः / अत एव परस्मैपदयोर्निरन्तरमावापः कान्तिविशेषकरत्वादुपादेय एव भवतीति // श्लाघ्यविशेषणैर्योगो यस्तु सा स्यादुदात्तता // 70 // यथा'श्रुत्वायं सहसागतं निजपुरात्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः / - शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडादौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः // 83 // ' अत्र शुभ्रे पल्लविनि नवाम्भोरुहि इत्यादिश्लाघ्यविशेषणोपादानादुदात्तता // श्लाघ्यैरिति / उत्कर्षवानुदात्तो लोके प्रसिद्धः / बहूनां मध्ये यः श्लाघते स उत्कर्षवान् / तेन श्लाघ्यत्वमुदात्तलक्षणम्। तदिह काव्ये वाक्यार्थपोषाधायकतया सहृदयहृदयावर्जनक्षमत्वेन श्लाघाविषयत्वे विशेष्यत्वं च वाक्यार्थोऽतस्तद्विशेषणपदेषु यथोक्तरूप उत्कर्षोऽभिमतोऽनुदारश्चायं गुण इति खरूपविशेषकृतात्कान्तिशरीरान्तर्गताच्चमत्कारित्वाद्भिद्यते। नचात्र मुहतिरभिमतेति नैकमपि कान्तिरूपमस्ति / अत एव पुराणच्छायमुदाहरति-श्रुत्वेति / श्रुतिमात्रेणेयं दशा दर्शने तु न ज्ञायते कथं भविष्यतीति / यमिति / न ह्यन्यस्य श्रुतमात्रस्य तादृशप्रभावसंभावना / सहसेति यावत्क्रीडासहचरणां धवलगृहादीनामपि च प्रेमानुरूपमापृच्छयते तावानपि समयो न लब्ध इति ध्वन्यते / आगतमिति निष्ठाप्रत्ययेन चेदिच्छति सिद्धमेवागमनमिति द्योतयति-निजेति / यस्यान्येन धर्षणं स्वप्नेऽपि न बुद्धिविषय आसीत् / सोपद्रवस्यापि यस्य न त्यागः कदापि कथंचिदभूदिति व्यज्यते / निर्गच्छतामिति. हृदयवमुख्येन पुनः पुनरवतिष्ठमानानामसंभवद्रूपं निर्गमनमिति