________________ 1 परिच्छेदः।] सरखतीकण्ठाभरणम् / ये चमत्कारास्पदमिति ध्वनितम् / तथाभूतानामथ संवेदने पूर्व एवाभिप्रायः। ताडितेत्याकारेण च्छेदोन्मेषः पयोधरेत्यादावोकारः / धकारतकारौ // * * अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् // 68 // यथा'मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः / कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि // 79 // ' अत्र सर्वकोमलत्वेऽसति श्लेषविपर्ययदोषशैथिल्याभावाबाहुल्याद्वर्णानामनैष्ठुर्यात्सौकुमार्यम् // .. . अनिष्ठुरेति / समस्त एव गुम्फे द्वित्राणि त्रिचतुराणि प्रस्फुटान्यक्षराणि निवेश्यन्ते स किलान्तरान्तरोपदंशन्यायेन चित्रावादपर्यवसायी सुकुमार इति प्राचां मतम् / अत एव समताया भेदः। मृद्वीकापाकः पुनरन्यादृशो वक्ष्यते / अनिघुरे सुकुमारव्यवहारो लोके दृष्टः / मण्डलीकृत्येत्यादौ प्रथमपादे मण्डेति, कृत्येति, बहेति अत्र संयोगत्रयम् / द्वितीयपादे ण्ठेति, मेति च संयोगद्वयमुपन्यस्य गीतिदीर्घखरनिवेशो रूपान्तरमादाय विशेषशोभाहेतुः। तृतीयपादे केति न इति प्रनृत्यन्तीति च दीर्घविसर्गसंयोगा इति व्यन्तरम् / चतुर्थपादे दीर्घखरा एवान्तरान्तरेति सैव वासना / ननु अनिष्ठुराक्षरमयत्वं सुकुमारतेति वक्तव्ये प्रायशब्दः केन प्रयोजनेनेत्यत आह–अत्रेति / न चायमर्थगुणः स हि वाक्यार्थे धर्मिणि निरूप्यते / अयं तु पदसमुदाय इति युक्तं शब्दगुणेषु परिगणनम् / संमितत्वमन्यथा भविष्यति // - यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् / यथा 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये / जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ // 80 // . : अत्र वाक्यपरिपूर्णतयार्थसमर्पकत्वादर्थव्यक्तिः / / वागर्थाविवेति। अत्र वन्दे इत्युत्तमपुरुषवचनेनैवाहमिति प्राप्तम् 'अस्मद्युत्तमः' इत्यत्र स्थानिनीत्यभिधानात् / किमिति कर्मापेक्षायां पार्वतीपरमेश्वराविति / तावपि