________________ काव्यमाला यथा स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः // 78 // ' अत्र पदेषु संहिताभावात्पृथक्पदत्वेन माधुर्यम् // या पृथगिति / पृथगिव पदानि यत्र भासन्ते स पृथक्पदः संदर्भ इत्युपमागर्भो बहुव्रीहिश्च / तस्य भावस्तत्ता / माधुर्यमुक्तखरूपं तच्छब्दगतं पृथक्पदतया विच्छिद्यत इति / तदेव माधुर्ययुक्तम् / औचित्येन हि समासव्यतिरेक आकृष्यते कदाचिदनुद्धतो वा समासः / अनुद्धतिरनुल्लेखः / तदुक्तम्-‘अवृत्तिमध्यवृत्तिा माधुर्ये घटना तथा' इति / अत एव समासनिवृत्तिपरमेतत्' इति वामनः। कश्चित्समासो रसौचित्येनाकृष्टः परिभाव्यमानो मनीषिभिश्चमत्कारकारणं भवति / यथा'तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं तत्र कलिन्दशैलतनयातीरे लतावेश्मनाम् / विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते नूनं जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः // ' अत्र तच्छब्दो येषां विलाससंपत्तिस्वभावलब्धप्रकर्षाणामनुभव एव साक्षीति विशेषप्राधान्यविवक्षया नसमासेनानिगमनात् / न या कापि वधूः, अपि तु गोपसंबन्धिनी कृतगोपाचारचातुरीपराधीना / नान्यत्र नीरसपाये वचन सोहार्द किं तु विलास एव / सोऽपि न यःकश्चित् , अपि तु गोपवधूसंबन्धीत्येवं बहूनां पिण्डीभावविवक्षया समास एवोचितः / एतावतैवाच्छेदोऽप्युचित एव / सर्वखायमानत्वात्तत्संबन्धजनितस्य विशेषस्य पृथगेवोक्तिरुचिता। राधारहःसाक्षिणामित्यत्रापि समासः पूर्ववत् / यद्यपि राधासंबन्धस्य वैवक्षिकं प्राधान्यमिति न समासः प्रतिभासते तथापि यदन्यस्य राधारहसि निवेशः क्षम इति भावयन्सुहृदामित्यपहाय साक्षिणामित्युक्तवान् / साक्षी हि तटस्थ एव व्याप्रियते / तेनावश्यकर्तव्यसाक्षिताप्राधान्यविवक्षया संभवति विरोधादित्यवसेयम् / स्थिता इति / पक्ष्मावस्थानेऽधरताडने स्तनतटनिपाते वलिभङ्गस्खलने नाभिनिम्नप्राप्ती जलबिन्दूनां कर्तृतानिर्देशात्वाच्छन्द्यमुन्मीलितम् / तथा चगौर्या बाह्यसंवेदनाभावस्तेन भगवद्गतोऽनुरागप्रकर्षः प्रथमपादेन / निदाघतापच्छिदा रजोहरणेन वसुंधरा सौरभोन्मीलनेन मयूरकेकायितादिना त्रिभुवनस्यापि