________________ काव्यमाला। .. ' अत्र 'गाहन्तां महिषा निपानसलिलम्' इत्यादिप्रसिद्धार्थपदोपादानात्प्रसादः // . प्रसिद्धार्थेति / अस्यार्थः प्रागेव विवृतः। प्रसादो द्विधा-वाच्यविषयः, प्रतीयमानविषयश्च / तत्र प्रतीयमानविषयो यथा-‘एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी / लीलाकमलपत्राणि गणयामास पार्वती // ' अत्र श्रुतावगतादेव वाक्यालज्जादयो हस्तदत्ता इव प्रकाशन्ते // वाक्यविषयो द्विधा भवति / ग्राम्यैरेव ग्राम्य उपनागरैर्वा, पदैः संदर्भनिर्वाहे / आद्यो यथा-'चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला / मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् // द्वितीयमुदाहरति-गाहन्तामिति / अत्र प्रथमपादे गाहन्तां महिषा इति ग्राम्यम् / निपानसलिलमित्युपनागरम् / शृङ्गैरिति ग्राम्यम् / मुहुरित्युपमागरम् / ताडितमिति प्राम्यम् / द्वितीयपादे कदम्बकरोमन्थशब्दावुपनागरौ शेषाणि ग्राम्याणि / एवं च चरमयोरपि खतो विवेचनीयम् / गाहनं विलोडनं तन्निःशङ्कमेव भवतीति विस्रम्भध्वनिः / अत एव त्रासाभावात्प्रकृतिप्रत्यापत्तौ / शृङ्गाभ्यां पर्यायेण जलताडनं महिषजातिः। छायाश्रयणं यूथबन्धश्च मृगजातिः / चिरपरस्परवार्तानभिज्ञानाद्दिवा निष्पलायनेन रोमन्थोऽपरिचित इवासीत्तस्येदानी शिक्षाक्रमेण यदि परिचयः स्यादित्यभ्यस्यत्विति ध्वनिः / वराहपतिभिरिति न यादृशतादृशानामस्मन्मृगयासंरम्भगोचरत्वमिति प्रकाश्यते / ननु चात्र कर्तृप्रक्रममेदो दूषणं कस्मान भवति / नैतत् / आपातशोण्डेषु परिणतिभीरुषु च महिषेषु खभावभीतेषु मृगेषु न तथायं संरम्भते यथा पुनरावृत्तिचतुरेषु प्रकारकोविदेषु च वराहेषु / ततश्च तेषामुचितक्रियासु कर्तृतामात्रमेव न सोढवानिति सांप्रतं कर्तृताभ्यनुज्ञानेन व्यज्यते / ततस्तृतीयायामौचित्यनिवेशिन्यां प्रक्रमभेदोऽप्युचित एवेति व्यक्तिविवेककारादीनामपि संमतः पन्थाः / इदं चेति चकारेण चेदस्मद्धनुरारूढमवतीर्ण वा तदैव संरम्भगोचराणां भयविस्रम्भाविति कोपप्रकर्षः / अत एवास्मदिति बहुवचनं सजीवम् // यन्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधि प्रति / ... अवैषम्येण भणनं समता साभिधीयते // 67 //