________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / विभजते-त्रिविधाश्चेति / शब्दः शरीरस्थानीयोऽधिष्ठेयतया प्रथमप्रतिसंधेयतया च बाह्यः / ततस्तदाश्रिता गुणा अपि बाह्याः / अर्थस्त्वात्मतुल्योऽधिष्ठायकतया पश्चाबाद्यतया चान्तरस्तेन तदाश्रिता गुणा अप्यान्तराः / अथेदानीं येषामग्रे दोषत्वं ततो गुणभावः / केचिद्विशेषमासाद्यन्ते वैशेषिकाः / पूर्व दोषा अपि विशेषयोगेन गुणीभवन्तीत्यभिप्रायात् / 'माधुर्योजःप्रसादास्त्रय एव गुणाः' इति ध्वनिकारस्य मतं निरस्यति-चतुर्विंशतिरिति / परस्परसंकीर्णत्वादुपाधीनामिति भावः / न चैतदस्माकं मनीषामात्रेण कल्पनमित्याह-आख्याता इति / निष्ठाप्रत्ययेनेदंप्रथमता द्योत्यते / उक्तविशेषादेव शब्दगुणानां पूर्वभाव इत्याह-तेष्विति / अभिधानं द्विविधं विभागतः, लक्षणतश्चेत्याह-नामलक्षणयोगत इति / पदघटनव्यवस्थितौ गुणान्तरगवेषणम् / अतः प्रथमं श्लेषलक्षणमाह-तत्रेति। श्लिष्टानि घटितानि पदानि यत्र तस्य भावस्तत्ता। न च घटनामात्रस्य गुणभाव इति शङ्कयम् / सुपदं शोभना घटनेत्यर्थः / शोभनत्वं घटनाया मसूणत्वमेकताप्रतिभानसामर्थ्य यह्राह्मं सूत्रमुरःस्खल इति / बीजं चात्र श्रुत्यनुप्रासवत्त्वमलक्षितसंधिता च / तथा हि प्रकृतोदाहरणे उभावित्युकारभकाराबोष्टयौ / यदि 'व्य' इत्याद्यन्तौ वकारयकारौ तालव्यौ / न चायं वर्णानुप्रासः। ईषत्स्पृष्टत्वादिभेदात् / मध्ये दकारवकारौ दन्त्योष्ठ्यौ / 'नि' इत्यत्र मकारो भकारेण, नकारो दकारेण समानश्रुतिक इत्यादि बोद्धव्यम् / तथा 'पृथक्प्रवाहौ' इति ककारस्य पवर्गगमनैकता प्रतिभासते, 'प्रवाहावाकाश' इत्यौकारस्यावादेशेन वर्णान्तरनिष्पत्त्या / एवं ‘पयसः पतेताम्' इत्यादावुन्नेयम् / पृथगिति पार्श्वद्वये / तेन वक्षःस्थलदक्षिणवामभागयोर्लम्बमानो द्विसरो हार इति लभ्यते / अस्य वक्ष इति / अत्रास्येति पदेन नान्यस्य हार इत्थमनुपमो न चान्यस्य वक्षःस्थलमाकाशवदुन्नतविस्तीर्णमिति भगवतः सकलजगद्विलक्षणत्वध्वनिरित्याराध्याः // प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते // 66 // . यथा ‘गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु / / * विश्रब्धैः क्रियता वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमसद्धनुः // 76 // '