________________ '1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / चुम्बनवद्दशनच्छेद्यस्थानानीति कामसूत्रम् / भिन्नग्रामरागाणामिति। भिन्नमार्गेषु सप्तखराणां समवायो नोपनिबद्धः। तथा च 'प्रीशुस्तु धैवतन्यासः पञ्चमर्षभवर्जितः। षड्जो-दीव्यतां जा(या)तो भिन्नषड्ज उदाहृतः'। तमङ्गोऽप्याह-'षाडवौडविके जाती भिन्नग्राम उदाहृतः' इति / ततश्च षड्वा पञ्च वा खरा भवन्ति भिन्नग्रामे न तु सप्त / कामशास्त्रविरोधप्रस्तावे कथं कलाविरोध उदाहियत इत्यत आह-तदंशत्वादिति / गीतादिकलाचतुःषष्टेः कामाङ्गतया कामसूत्रकारैरुपदेशाद्भवति तद्विरोधे कामशास्त्रविरोध इत्यर्थः / आदिग्रहणाद्देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदेत्यादिकं मोक्षादिशास्त्रविरुद्धमुदाहरणीयम् // : : .. दोषाणां प्रथममुद्देशोऽयमभिसंधाय कृतस्तं विशेषसंहारव्याजेन स्फुटयति एवं पदानां वाक्यानां वाक्यार्थानां च यः कविः। दोषान्हेयतया वेत्ति स काव्यं कर्तुमर्हति // 58 // अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम् / गुणयोगस्तयोर्मुख्यो गुणालंकारयोगयोः // 59 // त्रिविधाश्च गुणाः काव्ये भवन्ति कविसंमताः। .. बाह्याश्चाभ्यन्तराश्चैव ये च वैशेषिका इति // 6 // बाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः। वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः // 61 // चतुर्विंशतिराख्यातास्तेषु ये शब्दसंश्रयाः। ते तावदभिधीयन्ते नामलक्षणयोगतः॥६२॥ श्लेषः प्रसादः समता माधुर्य सुकुमारता / अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदात्तता // 63 // ओजस्तथान्यदौर्जित्यं प्रेयानथ सुशब्दता। तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः॥६॥ “संक्षेपः संमितत्वं च भाविकत्वं गतिस्तथा / . रीतिरुक्तिस्तथा प्रौढिरथैषां लक्ष्यलक्षणे // 65 // 4 स० क.