________________ 18 काव्यमाला / धर्मार्थकामशास्त्रादिविरोधः कोऽपि यो भवेत् / तमागमविरोधाख्यं दोषमाचक्षते बुधाः // 57 // तेषु धर्मशास्त्रविरोधो यथा. 'असावनुपनीतोऽपि वेदानधिजगे गुरोः। खभावशुद्धस्फटिको न संस्कारमपेक्षते // 72 // ' अत्रानुपनीतस्य वेदाध्ययनानधिकाराद्धर्मशास्त्रविरोधः // धर्मार्थति / वेदाध्ययनानधिकारादिति / 'अकृतव्रतबन्धे तु गुरावुपरते सति / नाभिव्याहारयेद् ब्रह्म खधानिनयनाढते // ' इति धर्मशास्त्रम् // अर्थशास्त्रविरोधो यथा 'कामोपभोगसाकल्यफलो राज्ञां महीजयः। "अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया / / 73 / ' __ अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्त्रकारैरननुमतत्वाच्छत्रुविजये चाहंकारस्याहेतुत्वादर्थशास्त्रविरोधः // कामेति / अत्र महीजयस्येति / महीजयस्य धर्मः फलमिति नीतिशास्त्रे स्थितम् / अहंकारो मानः स न शत्रुविजये साधनम् / अरिषड्वर्गत्यागे हीन्द्रियजयः। तथा विजिगीषुता। तया च शत्रुपरिभव इति / यदाह-स रघुराष्ट्रो विललास इत्युपक्रम्य कौटिल्याचार्यः मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यांशं चेति // कामशास्त्रविरोधो यथा 'तवोत्तरोष्ठे बिम्बोष्ठि दशनाको विराजते / . पूर्णसप्तखरः सोऽयं भिन्नप्रामः प्रवर्तते // 74 // . .अत्रोत्तरोष्ठे दशनाकस्य कामशास्त्रकारैरननुज्ञानात्कामशास्त्रविरोधः / भिन्नप्रामाणां च पूर्णसप्तवरत्वानुपपत्तेः। कलाविरोधेऽपि तदंशत्वाकामशास्त्रविरोध एव // तवेति / अत्रोत्तरोष्ठ इत्युपरितन ओष्ठ उत्तरोष्ठमन्तरमुखं नयनान्तं च मुक्त्वा