________________ 1 परिच्छेदः।] सरखतीकण्ठाभरणम् / 47 अत्र पामरस्य पट्टांशुकोत्तरीयाभरणानौचित्याद् औचित्यविरुद्धमिदम् // औचित्यविरुद्धमिति / औचित्यं योग्यता तस्य परामृश्यमानस्य विवक्षितविपरीतपर्यवसानमन्योऽनुमानविरोधः / तथा हि-पट्टांशुकोत्तरीयेण पामरः पामर्या प्रोञ्छति / अतिगुरुककूरकुम्भीभरेण खेदार्द्रितं वदनमित्यत्र पूर्ववत्संबन्धग्राहकप्रमाणाभावः / कदाचिद्राजप्रसादादिना तथा संभवात् / किं तु पामरौचित्यप्रतिसंधाने पट्टांशुकावगुण्ठनमनुचितम् / विदग्धनेपथ्यपरिग्रहादिनागरवृत्तापरिचय एव पामरत्वम् / ततश्चायमर्थों भवति-पट्टांशुकसंबन्धायोग्येयं पामरत्वादिति / कूरं भक्तम् / कुम्भी कलशी // प्रतिज्ञाविरुद्धं यथा'यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता / माता च मम वन्ध्यासीत्मराभोऽनुपमो भवान् // 71 // ' अत्र वयं वक्तुरेव 'यावज्जीवमहं मौनी' इत्यादिपदानामुक्त्या प्रतिज्ञाविरोधात्प्रतिज्ञाविरुद्धमिदम् // प्रतिशाविरुद्धमिति / अभ्युपगमवाक्यं प्रतिज्ञा। यथा—'यद्यदादिशति खामी तत्करोम्यविचारयन्' इति / साध्यनिर्देशश्च–'अयं स रशनोत्कर्षी पीनस्तनविमर्दनः / नाभ्यूरुजघनस्पशी नीवीविप्रेसनः करः॥' इति / द्वयमपि प्रतिज्ञापदेनाभिमतम् / तत्राद्ये ‘यावजीवमहं मौनी' इत्युदाहरणम् / अव्याहारो मौनम् / तदभ्युपगमवाक्येनैव बोध्यते / तथा हि-नायं मौनी वचनवत्त्वादित्यभ्युपगम्य मौनाभावपर्यवसन्नमिति तृतीयोऽयमनुमानविरोधः। द्वितीयपक्षकक्षीकरणेन चतुर्थोदाहरणे ‘ब्रह्मचारी च मे पिता, माता च मम वन्ध्या' इति वक्ता यस्यौरसः सुतः स पितृपदेनाभिमतो न च तस्य ब्रह्मचारित्वं संभवति / माता जनन्येवाभिधीयते न च तस्या वन्ध्यात्वं संभवति / परस्परव्याघातो विरोधः / अयं च पञ्चमप्तकारो यद्व्यापकद्वारा विरोधः / यथा-स्मराभोऽनुपम इति / नहि स्मराभत्वं लोके प्रसिद्धं किंतु स्मरतुल्यतां वदन् सोपमानत्वमभ्युपगच्छति। तच्चानुपमत्वेन विरुद्धम् / ततो व्यापकविरोधोऽयम् / यथा-वह्निरनुष्ण इति / आदिग्रहणादृष्टान्तद्वारकोऽनुमानविरोधः संगृहीतः //