________________ काव्यमाला / . अत्र हस्तिहयैरण्डखदिराणां केसरादिसद्भावस्य प्रत्यक्षेणानुपलम्भात् / जङ्गमस्थावरो लोक इति लोककृतोऽयं प्रत्यक्षविरोधः // .. आधूतेति / अन्ते प्रत्यक्षविरोधशब्दार्थ व्याचष्टे- प्रत्यक्षेणानुपलम्भादिति / कथमयं लौकिकविरोध इत्यत आह-जगमेति / जङ्गमस्थावरं जीवच्छरीरं लोकः / तत्र जङ्गमं गवाश्वादि स्थावरं लतावृक्षादि राष्ट्रादावेव देशपरिभाषा इदं प्रकारान्तरेण देशशब्देनाभिधीयते // - युक्त्यौचित्यप्रतिज्ञादिकृतो यस्त्विह कश्चन / अनुमानविरोधः स कविमुख्यैर्निगयते // 56 // तत्र युक्तिविरुद्धं यथा- 'सुरहिमहुपाणलम्पडभमरगणाबद्धमण्डलीबन्धम् / कस्स मणं णाणन्दइ कुम्मीपुट्ठट्ठिअं कमलम् // 69 // [सुरभिमधुपानलम्पटभ्रमरगणाबद्धमण्डलीबन्धम् / कस्य मनो नानन्दयति कूर्मीपृष्ठस्थितं कमलम् // ] अत्र कूर्मीपृष्ठे कमलोद्गतेरयुक्तियुक्तत्वाद्युक्तिविरुद्धमिदम् // युक्तीति / सामान्यतस्तावदनुमानविरोधो यत्प्रमाणाभावः / नहि प्रमेयाभावे प्रमाणं प्रसिद्धम् / तदयमर्थो युक्तिः प्रमाणम् / आधूतकेसरेत्यादौ उदाहरणे क्वचिदेव व्यक्तिविशेषे केसरादिसंबन्धप्रतिपादनं कथमन्यथा तेषामेरण्डं निर्दिशति / ततो भवति प्रत्यक्षेणैव विरोधः / इह तु न तथा / नहि विशेषतः कापि कूर्मपृष्ठव्यक्तिरस्तीति सामान्याकारेण विवक्षितम् / ततश्च कमलजातेः पङ्कजप्रभवाया एव निश्चयात्कूर्मपृष्ठादुद्गमे न कश्चित्प्रमाणं कदापि कस्याप्यवतरतीत्याशयवान् व्याचष्टेअत्रेति / अयुक्तियुक्तत्वादिति / युक्तेः प्रमाणत्वेनासंबद्धत्वादित्यर्थः // औचित्यविरुद्धं यथा'पटुंसु उत्तरिजेण पामरो पामरीऍ परिपुसइ / अइगरुअकूरकुम्भीभरेण सेउल्लिअं वअणम् // 70 // ' . [पट्टांशुकोत्तरीयेण पामरः पामर्याः प्रोञ्छति / अतिगुरुककूरकुम्भीभरेण खेदार्द्रितं वदनम् // ]