________________ .1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / विरुद्धं नाम तद्यत्र विरोधस्त्रिविधो भवेत् / प्रत्यक्षेणानुमानेन तद्वदागमवर्त्मना // 54 // यो देशकाललोकादिप्रतीपः कोऽपि दृश्यते / तमामनन्ति प्रत्यक्षविरोधं शुद्धबुद्धयः // 55 // तत्र देशविरोधो यथा 'सुराष्ट्रेष्वस्ति नगरी मथुरा नाम विश्रुता। अक्षोटनारिकेराख्या यदुपान्ताद्रिभूमयः // 66 // ' अत्र सुराष्ट्रेषु मथुरा नास्ति / तत्पर्यन्तादिभूमिषु चाक्षोटनारिकेराणामभावात् / देशेऽद्रिवनराष्ट्रादिरित्ययं देशकृतः प्रत्यक्षविरोधः॥ विरुद्धमिति / तत्र देशकालादौ प्रत्यक्षत एव वर्ण्यमानस्याभावो निश्चीयते इति देशादिविरोधः प्रत्यक्षविरोधः / शूरसेनेषु मथुरा न सुराष्ट्रेषु / तत्पर्यन्तभूमिष्वक्षोटा नालिकेरा वा न संभवन्ति / अद्रीणां कथं देशत्वमित्यत आहदेशोऽद्रिवनराष्ट्रादिरिति // कालविरोधो यथा__ 'पद्मिनी नक्तमुन्निद्रा स्फुटत्यहि कुमुद्वती। ___ मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः // 67 // ___ अत्र पद्मिन्या नक्तं कुमुदत्या अहिं मधौ निचुलानामुन्निद्रत्वाद्यभावान्निदाघस्य चामेघदुर्दिनत्वात् / कालो नक्तं दिनवि इति कालकृतोऽयं प्रत्यक्षविरोधः // पद्मिनीति / नक्तं रात्रौ / मधुर्वसन्तः / निचुला हिजलाः / ते वर्षासु पुष्प्यन्ति न वसन्ते / यद्यपि कालखरूपमप्रत्यक्ष तथापि तदुपाधीनां व्यवहाराङ्गतेव प्रत्यक्षता चेत्याह-कालो नक्तं दिनर्तव इति // लोकविरोधो यथा 'आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः / गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः // 68 // '