________________ काव्यमाला / [काला. [कोलाः खनन्ति मुस्ताः(न्), गृध्राः खादन्ति मृतकमांसानि / उलूका नन्ति काकान्, काका उलूकानपि वायन्ति // ] . अत्र कोलादेः स्वरूपाचनभिधानाज्जात्याद्यलंकारासंभवे निरलंकारनामायं वाक्यार्थदोषः / सविशेषणाद्गोरपत्यमित्यादेर्वाक्यदोषाद्भिद्यते // यदिति / वक्रताव्यतिरेकेऽलंकारसामान्यमेव न स्यादिति निरलंकारमित्युक्तम् / वायन्ति क्षिपन्ति खादन्ति / 'वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' इति धात्वनुसारात् / नन्वस्ति कोलादिखरूपमत्र / ततो जात्यलंकारेण वक्रत्वमाक्षिप्यते / विशेषस्य च सामान्यमान्तरीयकत्वात्कथमुच्यते निरलंकारमित्यत आह-अत्रेति। खं रूपं चमत्कारकारि कविप्रतिभामात्रप्रकाशनीयं रूपं तदेवालंकारकक्षामधिशेते / न चात्र तथा किंचिदभिहितमतो न जात्यलंकारः / एवमन्योऽप्यलंकारो नास्ति / कथं तर्हि वक्रताभावरूपदीर्घपुच्छ इत्यादेः शब्ददोषाद्भिद्यते तदाह-सविशेषणादिति / तत्र विशेषणप्रयोगे शब्दानामेव वक्रताव्यतिरेकेणापवाद इति शब्ददूषणमिह तु न तथा / किं तूक्तमेव स्वरूपं न वक्रमिति वाक्यार्थ एव दुष्टः / / __ अश्लीलमिति निर्दिष्टमश्लीलार्थप्रतीतिकृत् // 53 // यथा 'उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः / पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः // 65 // ' अत्रोद्यतस्य परं हन्तुमिति संभोगारम्भविषया, स्तब्धस्य विवरैषिण इति वराङ्गविषया, पतनं जायतेऽवश्यमिति रेतोविसर्गविषया, कृच्छेण पुनरुन्नतिरिति नष्टरागप्रत्यानयनविषया अश्लीलवाक्यार्थविषया प्रतीतिर्भवति // __ अश्लीलमिति / उद्यतस्येति / परमन्यं हन्तुमुद्यतस्य विवरैषिण इति प्रमादकृतावधानस्य स्तब्धस्यात्मन्युत्कर्षाभिधानेनान्यानवधीरयतः पतनमावश्यकमुद्गमः कृच्छ्रादिति संसर्गोऽभिमतः / एषामेव पदार्थानां संसर्गान्तरमश्लीलमेक्त्याहअत्रोद्यतस्येति / एतेन पददोषाढ़ेद उक्तः॥ देशकालादेः काव्याङ्गत्वात्तद्विरोधेनार्थो दुष्टः / विरोधश्च बांधः। स प्रमाणेनैव ततो लोकादिविरोधस्यालंकारसमयसिद्धस्य प्रमाणविरोधपर्यवसायित्वं विवक्षन्नाह