________________ .1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / यत्त्विति / यद्यपि बलवत्त्वादिना प्रतीयमानं हिमवद्भगवतोरस्ति सादृश्यम् , तथापि वाच्योपमाभ्रमेणायं निबन्धः, सा च न संपन्ना, नहि रोषेण विदग्धमन्मथशरीरदाहो विस्तृतनितम्बनिर्गतगङ्गास्रोतःप्रतिबिम्बभूतः / धातुरङ्गरञ्जितो गङ्गाप्रवाहोऽभिमतस्य भवति ललाटनेत्राग्निज्वालाप्रतिबिम्बमित्यपि न वाच्यम् , येनानधत्वप्रसङ्गात् / नितम्बसंबन्धोक्तिश्च न संगता स्यात् / कथं च मन्मथशरीरदाहः प्रतिबिम्बायत इत्याशयेन व्याचष्टे-अत्रेति / विशेषणयोर्बिम्बप्रतिबिम्बभावाभावे विशिष्टयोरुपमानं संभवतीति मत्वा विशेषणद्वयमदोषायैवेति व्याख्यातवान् // * इदानीं कविसमयबहिर्भूतत्वेनोपमानौचितीमाह__ अप्रसिद्धोपमानं यदप्रसिद्धोपमं हि तत् // 52 // यथा'कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम् / शरदिव विभाति तरुणी विकसितपुलकोत्करा सेयम् // 63 // ' अत्र कुमुदमुखयो!महिषयोः काव्यशशिनोश्च प्रतीयमाने शरत्तरुण्योश्च विधीयमाने सादृश्ये उपमानोपमेयस्याप्रसिद्धत्वादप्रसिद्धोपममिदम् // - अप्रसिद्धति। कमलमुखयोरिव कुमुदमुखयोर्गोगवययोरिव गोमहिषयोः काव्यशब्दयोरिव काव्यशशिनोरस्ति सादृश्यं सौरभादिकमेवानुपात्तमपि प्रसिद्धतया प्रतीयमानम् / शरत्तरुण्योस्तु न तथा प्रसिद्धमिति विकसितपुलकाङ्कुरा भातीयेताभ्यामुपात्तम् / पुलक इवाकुरा इति तत्राशयात् / विशिष्टभानस्य च द्वयानुगतत्वेनैव प्रतीयमानत्वात्तथापि पद इवालंकारेऽपि कविभिरप्रयुज्यमानत्वमेव दोष इति व्याचष्टे-अत्रेति / प्रतीयमान इति / इवशब्दस्य द्योतकमात्रत्वात् / अभिधीयमानं व्याख्यातम् // वक्रताविशेषविशिष्टस्यैवार्थस्य काव्यकोटिनिवेशादवको हेय इत्याह यदलंकारहीनं तन्निरलंकारमुच्यते / - यथा• कोला खणन्ति मोत्थं, गिद्धा खाअन्ति मउअमंसाई,। उलुआ हणन्ति काए, काआ उलुए वि वाअन्ति // 64 // '