________________ 12 काव्यमाला / - हीनमित्यादि / हीनमपकृष्टमसज्जातीयमुपमानमित्युपमानप्रसिद्धा विशेषा उपमेये प्रतिबिम्बकल्पाश्च प्रतीयन्त इत्युक्तम् / उत्कृष्टजातीयस्योपमेयस्य हीनजातीयेन सामान्यमभिधीयमानं शाब्दन्यायेन बोधयदनुचितमेव भवति / यथा'रणाश्वमेधे पशुतामुपागताः' इति / नन्वत्र रूपकबलेन वर्णनीयस्य पशुतावगम्यत इति युक्तमनौचित्यम् / क्वचिदन इत्यादौ प्रकृतोदाहरणे तु कथम् / नह्यत्र प्रस्तुतोपश्लोकस्य सारमेयतावगम्यते अग्रे प्रसरणमाप्लुत्य निहननं च सादृश्यमुपात्तमुचितमेवेति नैतत् / तत्त्वप्रतिबिम्बे सादृश्यप्रतीतिरपि शब्देन क्रियमाणा लोके कान्ति प्रति पुष्णाति / न हि कदापि हीनेन सादृश्योक्तौ वर्णना सजीवा प्रतीयते / प्रती. 'तिमात्रपरमार्थ च काव्यदर्शनमिति // तदेव यसिन्नधिकं तद्भवेदधिकोपमम् // 51 // .. यथा 'अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः // 61 // अत्र चक्रवाकस्य जगत्स्रष्ट्रा ब्रह्मणोपमितत्वादधिकोपममिदम् // तदेवेति / हीनेनोत्कृष्टं यथा नोपमीयत इति लोकमर्यादा तथोत्कृष्टेन हीनम् / तथा हि-चक्रवाकोपमितिमनुसंदधतां विशेषावगतिविधुराणां च सहृदयानां प्रतीतिः स्खलन्ती जनयत्येव वैरस्यमिति सूक्ष्मेक्षिकया दूषणम् // . इदमपरमायातमनौचित्यं यत्सादृश्यबुद्ध्या निबन्धेऽप्यसादृश्यपर्यवसानमित्याह. यवत्तुल्योपमानं तद्वदन्त्यसदृशोपमम् / यथा‘णमह हर रोसाणलणिद्दद्धमुद्धमम्महसरीरम् / वित्थअणिअम्बणिग्गअगङ्गासोतं व हिमवन्तम् // 12 // नमत हरं रोषानलनिर्दग्धमुग्धमन्मथशरीरम् / / विस्तृतनितम्बनिर्गतगङ्गास्रोतसमिव हिमवन्तम् // ] अत्र कोपानलनिर्दग्धमुग्धमन्मथशरीरस्य हरस्य नितम्बनिर्गतस्रोतसा हिमवनिरिणा सहासादृश्यादिदमसदृशोपमम् // 1. 'यदतु' इति मूलमुस्तकपाठः