________________ 1 परिच्छेदः। सरखतीकण्ठाभरणम् / 41 यत्त्विति / 'खाद विषं, पिब मूत्रं, नीयख मार्या, पततु ते वज्रम्' इत्थं माता पुत्रमाकोशति / किं कृत्वा / क्षित्वा भूमौ निरस्य / कुतः / दन्तखण्डितखनी / यतो बालो दन्तैर्मातुः स्तनं दशतीति जातिस्तस्याः पुनरेवंविधं परुषामिधायित्वमनुचितम् / अतिपारुष्यमेव चात्र विरसताहेतुः / तेनातिमात्राद्भेदः // ___ अप्रस्तुतरसं यत्स्याद्विरसं तनिगद्यते // 50 // यथा'तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा / सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया // 59 // ' अत्र पितृमरणसंतप्तायाः संभोगप्रवर्तनमप्रकृतरसत्वाद्विरसम् // अप्रस्तुतेति / अप्रस्तुतः प्रस्तावमन्तरेण सूचितो रसो यत्र तत्तथा। एकरसप्रक्रमे हि विरोधिरसान्तरप्रस्ताव एव क्रियमाणो नौचित्यवान् / न चौचित्यमन्तरेण रसस्य पदसंबन्धः संभवति / यदाह-'अनौचित्यादृते नास्ति रसभङ्गव कारणम् / प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा // ' इति / तव वनवास इत्यादी पितृमरणानुभवप्राप्तशोकप्रकर्षायाः शृङ्गारप्रस्तावना विरसायते। सा हि खभावत एव करुणेन सहैकवाक्यसमावेशविरोधिनी। न चैकस्य बाध्यत्वमङ्गभावो वावगम्यते / नाप्युभयोरन्यगुणीभावोऽवगम्यते / येनायं विरोधः समाधीयताम् / युक्तिरत्र विदग्धैव / अर्थस्तु रसात्माविरोधेन पदं बध्नाति ततः कान्तिविपर्ययाद्भेदः / न च करुणोक्तिरुपक्रान्ता यतस्तदनिर्वाहे खेदसंभावना स्यात् / किंतु पितृमरणशुचं जहीहीत्यनेन शोकाविष्टायां शृङ्गारप्रस्तावना। तथा च मिन्नमेव दुष्टताबीजं तदेतत्सर्वमपि संधाय व्याचष्टे-अत्रेति // ___ इदानीमनौचित्यरूपदूषणप्रस्तावः। अर्थालंकारेषूपमाप्रधानमिति प्रसिद्ध्या तस्यामेवोपलक्षणतयानौचित्यं प्रपञ्चयति• हीनं यत्रोपमानं स्यात्तत्तु हीनोपमं स्मृतम् / यथा-- ... 'कचिदग्रेऽप्रसरता कचिदाप्लुत्य निघ्नता / शुनेव सारङ्गकुलं त्वया भिन्नं द्विषत्कुलम् // 6 // अत्र शौर्यशालिनः शुनोपमितत्वाद्धीनोपममिदम् // .