________________ 40 काव्यमाला / जात्यादीति / वाक्यार्थो द्विविधः-खतःसंभवी, कविप्रौढोक्तिनिर्मितश्च / तत्रासति विशेषहेतौ यज्जातीयमर्थ बुद्ध्या व्यवस्थाप्य वचनोपक्रमस्तजातीयस्यैव समस्तवाक्यनिर्वाहो युक्तो न त्वन्तरेण परित्यागेन भेदः। उपक्रान्तनिर्वाहाशक्तो लोके खिन्न इत्युच्यते / तदिदमुक्तम्-जात्यादीति / आदिपदेन खतःसंभविविशेषाणामुपमादीनां कविप्रौढिनिर्मितानां च रूपकादीनां परिग्रहः / विवाह्य नववधूः सासुरअं श्वशुरगृहं दोलिकया नीयमाना रोदितीति खतःसंभवी / नवपरिणीताखभावलक्षणार्थस्तावदुपक्रान्तस्तथा सति यो जन्माभ्यस्तपितृगृहवियोगवेदनादूनमानसाया अत्यन्तापरिशीलितेन देवरेण संस्थापनप्रकारः स न जातौ निविशते। परिशीलितभर्तृकुलाया कुलायां वा / तस्यौचित्यात्तस्या एव हि किंचन वक्तव्यं भवतीयाह-अत्र प्रक्रान्तस्येति // . यत्सर्वलोकातीतार्थमतिमात्रं तदुच्यते // 49 // यथा_ 'भृङ्गेण कलिकाकोषस्तथा भृशमपीड्यत / ववर्ष विपिनोत्सङ्गे गोष्पदप्रं यथा मधु // 57 // अत्र कलिकाकोषे गोंष्पदप्रमधुवर्षस्यासंभवादतिमात्रत्वम् // यत्सर्वलोकेति / गोष्पदप्रमिति पूर्णिजन्ताद् ‘वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल्, ऊलोपश्च / कलिकामकरन्दपरिणामस्यैतावतो लोके न प्रसिद्धिः / न चैतत्खिन्नमेव / कलिकाकुसुमस्यानुपक्रमात् , किं तु स्वरूपभ्रमालोकमर्यादातिरिक्तवृत्तमुपात्तमिति पृथगेव दोषः // यत्तु क्रूरार्थमत्यर्थं परुषं तु तदुच्यते / यथा'खाहिं विसं, पिअ मुत्तं, निजसु मारीअ, पडउ दे वजम् / दन्तक्खण्डिअथणआ खिविऊण सुअं सवइ माआ॥५८॥ [ खाद विर्ष, पिब मूत्रं, नीयस्ख मार्या, पततु ते वज्रम् / दन्तखण्डितस्तनी क्षित्वा सुतं शपति माता // ] . अत्र खाद विषमित्यादीनां क्रूरार्थानामभिधानात्पारुष्यम् / /