________________ .1 परिच्छेदः / ] सरखतीकण्ठाभरणम् / वाक्यार्थ उतेयमारावृत्तिः समीपदेशवर्तिनी / 'आरादूरसमीपयोः' / तथा चेदृशं कुलाङ्गनानुचितं चारित्रखण्डनं द्रष्टुं न क्षमा न सहिष्णुरतोमानयनचापलं कार्षीरिति / नानार्थपदप्रक्षेपात्साधकबाधकप्रमाणाभावाच्च संदिह्यत इत्याह-अत्रारात्प्रमृतिशब्दानामिति / न च मिथो विरोधिनोरेकत्र विवक्षा संभवति। न चास्ति प्रकरणादिकमेकनियामकं / न च मातुः प्रकोपशङ्कया प्रियविलोकनरसोत्काया मनोरथभङ्गो न भवतीत्यर्थः // वाक्यं यत्तु क्रमभ्रष्टं तदपक्रममुच्यते // 48 // यथा'काराविऊण खउरं गामउलो मजिओ अ जिमिओ अ। णक्खत्तत्तिहिवारे जोइसि पुच्छिउं चलिओ // 55 // ' [कारयित्वा क्षौरं ग्रामप्रधानो मजितश्च भुक्तवांश्च / नक्षत्रतिथिवाराज्यौतिषिकं प्रष्टुं चलितः // ] अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम् // वाक्यं यत्त्विति। कारयित्वा क्षौरं गामउलो ग्रामप्रधानपुरुष इति देशीयाः। आमेऽपि वा यः कुटोऽव्युत्पन्नः। मजिओअ सुस्नातश्च जिमिओ अभुक्तवांश्च ततो नक्षत्रं तिथिवारौ च ज्योतिषिकं प्रष्टुं चलितः। तिथिवारज्ञानानन्तरं क्षुरकर्म, ततः मानभोजने, इति लौकिकः क्रमस्तस्य विपर्यासो व्यक्त एव श्रुतिवचनात् / क्रियमाणेऽपि रचनावैपरीत्येन क्रमभ्रंशः समाधीयत इति नासौ शब्ददोषः / अत्र पूर्वा|पात्तानां क्रमो न विपर्यस्तः, किंतु क्षौरोत्तरार्धाक्तयोरित्याह-अत्र क्षुरकर्मण इति // ___ जात्याधुक्तावनिव्यूढं खिन्नमाहुर्महाधियः। यथा- 'वेवाहिऊण वहुआ सासुरअं दोलिआइ णिज्जन्ती / रोअइ दिअरो तं संठवेइ पास्सेण वच्चन्तो // 56 // . [विवाह्य वधूः श्वाशुरकं दोलिकया नीयमाना। * * रोदिति देवरस्ता संस्थापयति पार्थेन व्रजन् // ] अत्र प्रक्रान्तस्य नवपरिणयवतीखरूपभणनस्यानियूंढत्वाखिमत्वम्॥