________________ 38 काव्यमाला। चेति / शब्दवृत्त्यैवावगतस्य शब्दवृत्त्या पुनरुक्तम् / अर्थतो लब्धस्य शब्दवृत्त्या भणनमित्येकः प्रकारः / अर्थतो लाभं व्युत्पादयति-शास्त्रेति / अस्य रघुकुलभुवः शरभङ्गाश्रमगमनमितिहासाचक्षुषः प्राप्तस्यैव ज्ञानजनकत्वं शास्त्रात् / शरभङ्गसंबन्धिन्येव तनुर्लोकव्युत्पत्तस्तेन नियमेन ह्यर्थतः प्राप्तिर्भवतीत्यभिप्रायः // ___ उक्त्यभिन्नार्थमेकार्थ यथा_ 'प्रसाधितस्याथ मुरद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतम् / वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता झुरसीतरा तु॥५२॥' इत्युक्तैकार्थमेवाह- . 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य / आलिङ्गिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः // 53 // ' अनयोः श्लोकयोरभिन्नार्थमेकं वाक्यं महावाक्ये दुष्यति // उत्यभिन्नार्थमिति / वाक्यान्तरोक्त्यभिन्नस्तात्पर्यार्थो यस्य तत्तथोक्तम् / तथा हि-'प्रसाधितस्य-' इत्यादिश्लोके श्लेषोपहितेन व्यतिरेकेण काप्यपूर्वा कृष्णस्य लक्ष्मीस्तत्काले बभूवेति तात्पर्यार्थः। तेनैव प्रकारेण ‘कपाट-' इत्यनिमश्लोके स एवास्ति / तुल्यार्थत्व उपादानं भिन्नार्थत्वेऽपि / तदिदमाह-अनयोः श्लोकयोरिति / महावाक्ये श्लोकद्वयरूपे एकम् , अन्यतरदुष्यति। हेयं भवतीत्यर्थः // संदिग्धार्थ ससंशयम् / मनोरथप्रियालोकरसलोलेक्षणे सखि / आराद्वृत्तिरियं माता न क्षमा द्रष्टुमीदृशम् // 54 // ' अत्रारात्प्रभृतिशब्दानामुभयार्थत्वान्माता द्रक्ष्यति न वेति संदिग्धम् / / . संदिग्धार्थमिति / शब्दखरूपनिश्चयेऽपि वाक्यार्थो दोलायित इत्यर्थदोषबम् / तथा हि-मनोरथेत्यादौ मनोरथे यः प्रियो वल्लभस्तदालोकरसेन लोलेभणे चपललोचने तव मातेयमारानुत्तिर्दूरवर्तिनी / अतो नैतादृशं सानुरागाङ्गनाजनयोग्यं द्रष्टुं क्षमा इति व्यवस्थापनामावलोकयितुं शक्ता ततो निःशङ्कमालोकखेति