________________ काव्यमाला। हीनोपमं भवेच्चान्यदधिकोपममेव च / असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा // 45 // निरलंकारमश्लील विरुद्धमिति षोडश / उक्ता वाक्यार्थजा दोषास्तेषां वक्ष्यामि लक्षणम् // 46 // समुदायार्थशून्यं यत्तदपार्थ वचः स्मृतम् / यथा'जरगवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि / तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्थः॥५०॥' अत्र समुदायार्थः कोऽपि नास्तीत्यपार्थमिदम् / अपार्थमिति / उद्देशे दोषाणां व्यासेनोक्तिः - पूर्वोक्तप्रयोजनानुरोधेनेति / समुदायिपदानां विशेषणविशेष्यभावः समुदायार्थः / तेन शून्यं पदजातमपार्थक पदार्थानामसंसर्गेण पदानामसंसर्गोऽभिधीयते। तेनार्थदोषत्वम् / जरद्गव इति / कम्बलपादुकाभ्यामिति लक्षणे तृतीया। न च ताभ्यां वृद्धोक्षस्य संबन्धः। कथं च तस्य मङ्गलानां धवलादीनाम् / 'मद्रकाणाम्' इति पाठे गीतकविशेषाणां वा संगतिः, कथं वा पुत्रकामायास्तत्प्रश्नसंसर्गः, कथं च राजनिति संबोधनं घटते, पुत्रकामायाश्च रुमालवणार्थप्रश्नः / रुमा लवणाकरः। तथा च प्रयोगः–'रुमाघासकान्तादिलवणात्मवत्' इति // ... व्यर्थमाहुर्गतार्थ यद्यच्च स्थानिष्प्रयोजकम् // 47 // / यथा . 'आहिषातां रघुव्याघ्रौ शरमजाश्रमं ततः / . खामहौषीत्तनुं वह्नौ दृष्ट्वा तौ रामलक्ष्मणौ / / 51 // '. अत्राहिषातां दृष्ट्वेत्येताम्यामेव ताविति, रघुव्याघ्रावित्यनेनैव रामलक्ष्मणाविति, तनुमित्यनेनैव खामिति, अहौषीदित्यनेनैव वह्राविति, गम्यत इति गतार्थत्वम् / न च शरमनाश्रमगमनं तनुहोमो वाग्रतः कथाशरीरोपयोगीति निष्प्रयोजकत्वम् / अतोऽयं व्यर्थनामा वाक्यस्य