________________ १.परिच्छेदः / सरखतीकण्ठाभरणम् / मित्याह-यया कयाचिदिति / ओष्ठयकण्ठ्यादिकं वा तद्रूपसमानश्रुतिकमादौ यस्य तथाभूतस्य पदस्य प्रत्यासत्तिः / तद्रूपा हि' इति पाठे व्यक्त एवार्थः / अत एव सानुप्रीसा ततश्च रसावहेत्यर्थः / यदाह-'कङ्कणादिविमुक्तापि कान्ता किमपि शोभते / कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रवर्तते // ' इति // विकटतामात्रभावस्यादोषत्वाद्विशेषयन्नाह यस्तु रीतेरनिर्वाहादौदार्यस विपर्ययः। वाक्यं तदनलंकारमलंकारविदो विदुः॥४१॥ यथा 'दीर्घपुच्छश्चतुष्पादः ककुमाल्लम्बकम्बलः / गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः // 49 // ' तदिदमपुष्टार्थत्वादनुस्कृष्टविशेषणमनुदारं निरलंकारमाचक्षते सोऽयमौदार्यविपर्ययो नाम शब्दार्थप्रधानो गुणविपर्ययो दोषः / यदाह श्लाघ्यैर्विशेषणैर्युक्तमुदारं वाक्यमिष्यते / यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः // 42 // उत्कर्षवान्गुणः कश्चिदुक्तेर्यसिन्प्रतीयते / तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः॥४३॥ - यस्तु रीतेरिति / काव्यरूपताप्रयोजकं शब्दार्थयोर्वक्रता उदारता नहि वक्रतामन्तरेण काव्यपदवीप्राप्तिस्तदाह-'यत्तु वक्र वचः शास्त्रे लोके च वच एव तत् / वक्रं यदनुरागादौ तत्र काव्यमिति श्रुतिः // ' इति / तदेतदलंकारसामान्यमस्याभावे निरलंकारता भवतीत्याह-अनलंकारमिति / दीर्घपुच्छ इत्यादौ प्रकृतोदाहरणे द्वयोरवक्रत्वं स्फुटयति-यथेति / विविच्य गुणप्रस्तावे कथयिष्यामः / अर्थपोषमाह-उत्कर्षवानिति / उभयप्रधानतामुपसंहरति-काव्येति // . तदेवं वाक्यदोषाँल्लक्षयित्वा क्रमप्राप्ता वाक्यार्थदोषा लक्षणीया इति तान्विभजते. अपार्थ व्यर्थमेकार्थ ससंशयमपक्रमम् / .. खिन्नं चैवातिमात्रं च परुषं विरसं तथा // 44 // /