________________ 34 काव्यमाला। .. .. . अत्र नखिनां च नदीनां चेति षष्ठ्यन्ताच्चकारेण रीतेरुपक्रमे शृङ्गिणां शस्त्रपाणिनामिति चकारनिर्वाहात् स्त्रीषु राजकुलेषु चेति षष्ठीपरित्यागादमधुरार्थत्वाच माधुर्यविपर्ययनामायं शब्दार्थप्रधानो गुणविपर्ययो दोषः / यदाह... मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः। . येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः // 39 // . यया कयाचिच्छ्रत्या. यत्समानमनुभूयते / तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा // 40 // माधुर्यव्यत्यय इति / शब्दार्थयोश्चित्तद्रुतिविधायित्वं माधुर्यम् / निचुलितत्वमिवार्द्रतापदाभिधेया चेतसोऽवस्था तत्कारिता माधुर्यम् / सा च शृङ्गारकरुणान्यतरप्रकाशानुगुणव्यापारावेशेन भवति / यदाह-शृङ्गार एव मधुरः परः प्रह्लादनो रसः / तन्मयं काव्यमाश्रित्य माधुर्य प्रतितिष्ठति // शृङ्गारे विप्रलम्भाख्ये करणे च प्रकर्षवत् / माधुर्यमात्रतां याति यतस्तत्राधिकं मनः // ' इति / तत्र शब्दस्य माधुर्य पृथक्पदतया व्यज्यते / दीर्घसमासस्य यत्नान्तरसाध्यतया सुकुमाररसप्रकाशसामश्रीबहिर्भावात् / ततश्च शब्ददूषणप्रस्तावे पृथक्पदतामात्रप्रत्ययो यद्युच्यते गौडीया दुष्टा स्यात् , इति रीतिखण्डनपर्यवसायितयाभिधानम् / भवति हि कदाचित्कवेः शक्तिवशात्सोल्लेखेऽपि समासे रसव्यक्तिः / यथा-'याते द्वारवतीं तदा मधुरिपौ तइत्तसङ्गानतां कालिन्दीतटरूढवजुललतामालिङ्गय सोत्कण्ठया / उद्गीतं गुरुवाष्पगगुदगलत्तारखर राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् // ' एवं चास्खलितप्रतीतिविषयस्यैव संदर्भस्य रसत्वं पदघटनारूपस्य च संदर्भस्यानिर्वाहादेव प्रतीतिः स्खलतीत्याह-तदनियूंढमिति / काव्यसर्वखं रसप्रकाशस्तद्वेदिभिस्तदुपायभूतघटनास्वरूपवेदिभिः / एतदेव व्याख्यानेन स्फुटयति-अत्रेति / नखिनां च नदीनां चेति चकारेणोत्तरत्र तत्परित्यागेऽनुपपत्तिर्जागर्ति तदेव प्रतीतेः संवलनम् / एवमुत्तरत्रापि / अस्तु तर्हि वस्त्वसत्त्वेऽप्येकदिङ्माधुर्यसंपत्तौ काव्यताप्रतिलम्भ इत्यत आह-अमधुरार्थत्वाचेति / स्पष्टमेतच्छब्दार्थप्रधानतां भाधुर्यस्य पूर्वाचार्यसंमत्या द्रढयति-यदाहेति / माद्यन्ति आर्द्रचित्ता भवन्ति / मधुरसाहश्यादयं व्यवहार इत्यत आह-मधुनेति / इदं च घटनाया माधुर्ये परमं रहस्य