________________ 1 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / ___ अत्र सत्यसमस्तपदामिधाने सत्यपि चार्थसौकुमार्ये श्लेषादिगुणसामग्यभावान्न वैदर्भी रीतिः / नापि यथोक्तलक्षणाभावागौडीयादय इति / खण्डितरीतित्वादयमोजोविपर्ययः शब्दार्थप्रधानो गुणविपर्ययो दोषो भवति / यदाह इत्यादिवन्धपारुष्यं शैथिल्यं च नियच्छति / / अतो नैनमनुप्रासं दाक्षिणात्याः प्रयुञ्जते // 37 // वाक्ये य इति / ननु समासभूयस्त्वमोजोऽभिधास्यते तत्कथमस्याभावोऽर्थप्रधानोऽपि कथं च दोष इत्यत आह-खण्डयन्रीतिमिति / रीतिभङ्गपर्यवसायी तस्याभावो दूषणम् / न तु तन्मात्रमित्यर्थः / एतदुक्तं भवति / शब्दार्ययोरुचिता प्रौढिरोजः / यदाह-'रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः / तव्यक्तिहेतुशब्दार्थावाश्रित्यौजो व्यवस्थितम् // ' इति / तत्रार्थव्यक्तिमर्थगुणेषु विवेचयिघ्यामः / शब्दस्य तु पारुष्यशथिल्यव्यतिकरलक्षणा सा च क्वचित्समासवतिया व्यज्यते / यथा-'चश्चंद्रुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य / ' इति / क्वचित् अन्यथापि प्रकाश्यते / यथा-'यो यः शस्त्रं बिभर्ति' इत्यादि / तदेवं तत्त्वव्यवस्थितौ पूर्वाचार्यव्यवस्थित्या गुणकाण्डे समासभूयस्त्वमोजोलक्षणं व्यभिचरितगुणमध्ये समासरचनासौष्ठवं वक्तृक्षमतया गुण इत्यभिप्रायाद्विशेषं तत्र वक्ष्यामः-तदिदमिति / रीतिं खण्डयतीति / नहि प्रौढेरभावे गुणसंबन्धनात्मिका रीतिर्नामेति विपर्ययपदेन साधारणेन पारुष्यशैथिल्ये दर्शयति-अत्रेति / एतदेवाचार्यमतेन द्रढयति-यदाहेति / यद्यप्यत्रानुप्रासोऽस्ति तथापि रीतिमन्तरेण मृतशरीर इव काव्ये नालंकरणतामध्यास्ते / ततश्च न प्रकृतः कोऽपि चमत्काराविर्भाव इति नास्यैव काव्यतां प्रयोजयतीत्यर्थः / दाक्षिणात्या वैदर्भीमाहुः / पारावरीणास्ते हि विशिष्टरीतिखरूपमवधारयितुं क्षमा इति // ... माधुर्यव्यत्ययो यस्तु जायते रीतिखण्डनात् / .. तदनियूँढमित्युक्तं काव्यसर्वखवेदिभिः॥३८॥ यथा• 'नखिनां च नदीनां च शृत्रिणां शस्त्रपाणिनाम् / विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च // 48 // 3 स. क.