________________ 32 काव्यमाला। वाक्यमिति / संपूर्ण वाक्यत्वमर्थव्यक्तिं करोतीति वक्ष्यति / सर्वस्य वाक्यस्य विशेषणविशेष्यभावबोधकत्वनियमे यावतां विशेषणविशेष्यभावोऽभिमतस्तावत्प्रतिपादकपदोपादानं संपूर्णता / सा च विशेषणविशेष्यभावानुरूपार्थनिरूपणीयतयार्थप्रधानेति तद्विपर्ययोऽपि तत्प्रधान इति पूर्ववन्नेयम् / अत एव विवक्षितवाक्यान्यथानुपपत्त्या नेयः कल्पनीयोऽर्थो यस्येति नेयार्थमित्यर्थोऽपि घटते / महीति / पूर्वार्ध एव काव्यं निर्वर्तितम् / न च तावता विवक्षितार्थलाभः / तथा हि-समुद्रमध्यात्पृथिव्यामुद्धियमाणायां महासुरविमर्दै तेषां दंष्ट्रया पाटनेन रुधिरशबलतया लोहितत्वमुदधेरिति वाक्यार्थोऽभिप्रेतः / लक्षणाया अभावान नेयार्थत्वं पददूषणमत्र संभावनामारोहति / दूषणताबीजं चात्र स्फुटमेव / अशरीरं तु क्रियापदशून्यमित्युक्तम् / तदेतत्सर्वमभिप्रेत्याह-तदिदं निगदेनैवेति // कान्तेर्विपर्ययाद्वाक्यं ग्राम्यमित्यपदिश्यते / यथा'विरहे ते विषीदन्तं निषीदन्तं तवान्तिके / कन्ये कामयमानं मां त्वं न कामयसे कथम् // 46 // इदमुक्तेाम्यतया कान्तिहीनमित्यर्थप्रधानोंऽयं कान्तिविपर्ययो दोषः॥ कान्तेरिति / रसस्य दीप्तिः कान्तिरग्रे विवरिष्यते तेनार्थप्रधानता व्यक्ता / तस्यामस्ति वाक्यवाच्ययोर्व्यापारः / वाक्यं विदग्धोक्तिकं व्याप्रियते / अतथाभूतस्य रसाव्यञ्जकत्वनियमात् / तथाहि-कन्ये इति संबोधनेन रसविरोधिनीविलसिता क्षमता प्रतीयते / कामयमानमित्यनेनानावरणमुच्यमानोऽर्थः कथं न वैरस्यमावहतीत्यादिकमुन्नेयम् / तदिदमाह-इदमुक्ताम्यतयेति // . ओजोमाधुर्यमौदार्य न प्रकर्षाय जायते // 35 // यसिंस्तमाहुरुभयप्रधानं तद्विपर्ययात् / / . वाक्ये यः खण्डयन्रीतिं भवत्योजोविपर्ययः / असमस्तमिति प्राहुर्दोषं तमिह तद्विदः॥३६॥ यथा'स्मरः खरः खलः कान्तः कायः कोपधनः कृशः।' - च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः // 47 //