________________ '1 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 31 यथा- 'अनङ्गकमलंचक्रे मयमाना मरालिका / * यस्यानत्यर्जुनाजन्म सदृक्षाको वलक्षगुः // 44 // ' - अत्र शब्दानामनतिप्रसिद्धत्वादनतिप्रसन्नत्वमिति सोऽयमर्थप्रधानः प्रसादविपर्ययो दोषः // ' या तु कान्तीति / 'कान्तिप्रसादार्थव्यक्तीनाम्' इति प्रमादात्पाठः / विवरणक्रमानुरोधेन 'प्रसादार्थव्यक्तिकान्तीनाम्' इति पठनीयम् / अप्रसन्नमिति / श्रुतमात्रस्यैव यस्यार्थश्चित्ते प्रतिफलति स प्रसन्नः शब्दः / तथा चार्थस्य प्राकट्यं झटिति प्रतिबन्धयोग्यत्वम् / ‘पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः' इति सहृदयव्यवहारार्थविषयत्वं प्रसादोऽर्थनिरूपणीय इति भवत्यर्थप्रधानः / न चासो पदमात्रमुल्लिखतीति वाक्यांशो भवति / तेन तद्विपर्ययोऽपि वाक्यगामी / 'अर्थस्य यन्न झटिति प्रतीतिरुपजायते / तत्र तत्र महाराज शब्द एवापराध्यति // इति वाक्यदोषेषु परिगणनमभ्यच्छतया च शब्दानां प्रतीतिः स्खलन्ती दूषणतामस्य स्थापयति-अनङ्गकमिति / न विद्यतेऽङ्गं यस्येत्यनङ्गकमाकाशं मयमाना गच्छन्ती। अयमयेति दण्डकेषु पठितान्मयधातोः शानच् / मरालिका हंसी / अलंचके शोभितवती / ननु हंस्यागमनपथालंकरणकालो रात्रिस्तस्यां च तुषारकिरण एव तदलंकारकारी किमनया वराक्येत्यत आह-यस्येति / यदनत्यर्जुनं न भवति अब्जन्म तोयभवम् / नीलोत्पलमिति यावत् / तत्सदृशलाञ्छनो वलक्षगुर्वलक्षो गौः किरणो यस्य शुभ्रांशुश्चन्द्रः / तेनासौ सकलङ्कतया न तथालंकाराय यथेयमित्यर्थः / पश्येति वाक्यार्थकर्मकमेके पठन्ति / तन्न युक्तम् / चक्र इति परोक्षतया खरसभङ्गापत्तेः / उक्तयुक्त्या वाक्यदोषत्वमाह-अत्र शब्दानामिति / न च मयमानादीनां श्लिष्टता / तल्लक्षणविरहात् / नापि गूढार्थत्वं तत एव // * वाक्यं भवति नेयार्थमर्थव्यक्तेविपर्ययात् // 34 // .यथा... 'मही महावराहेण लोहितादुद्धृतोदधेः / * इतीयत्येव निर्दिष्टे नेया लौहित्यहेतवः // 45 // ' तदिदं निगदेनैव व्याख्यातमित्यर्थप्रधानोऽयमर्थव्यक्तिविपर्ययः / / .