________________ ... काव्यमाला / * अत्र पूर्वार्धस्य मृदुबन्धत्वादुत्तरार्धस्य च गाढवन्धत्वात्समबन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपर्ययो दोषः // . भवेदिति / स एव संदर्भो मृदुमध्यकठोरवर्णनियूंढास्तिस्रो बन्धजातयस्तत्रैकरूपे वाक्याथै एकैव जातिरुपादेयेति तद्विपर्यासो वैराग्यहेतुरेव / उच्छलन्तः शीकरा यस्मात्तथाच्छाच्छमत्यच्छम् / द्वयमपि निर्झराम्भोविशेषणम् / मलयमारुतस्योद्दीपनविभावभूतस्य वर्णमात्रवैरूप्यमस्येयाशयवानाह–अत्र पूर्वार्धस्येति / शब्दप्रधानतामस्य विवृणोति-समबन्धेष्विति // सौकुमार्यविपर्यासात्कठोर उपजायते // 32 // . यथा 'असितर्तितुगद्रिच्छित्स्वःक्षितांपतिरद्विहक् / _अमिद्भिः शुभ्रदृदृष्टैर्द्विषो जेन्नीयिषीष्ट वः // 43 // ' अत्रातिकठोरत्वादसौकुमार्य सुप्रतीतमेव // - सौकुमार्यविपर्यासादिति / अकठोराक्षरप्रायंताबन्धस्य सुकुमारत्वं तद्विपर्यये कठोरता श्रुतिकटुत्वं भवति / असिततीति / 'ऋ गतौ' इति धात्वनुसारादतिवर्म / असिता कृष्णा ऋतिर्वर्त्म यस्य कृष्णवर्मा वह्निस्तस्य तुगपत्यम् / अद्रिच्छिदिति क्रौञ्चदारणत्वात् / स्वर्गे क्षियन्ति निवसन्ति ये देवास्तेषां पतिः सेनानीत्वात् / अद्विदृग्द्वादशलोचनत्वात् / स एवंभूतो भगवान् कुमारोऽमिद्भिरस्निग्धै रूक्षैः शुभ्रदृग्दृष्टैधवलाक्षिविलोकितैः सक्रोधनिभालने तारकाभागस्योर्ध्वतया नयनात्तथाभावो जातिौं युष्माकं द्विषः शत्रुञ्जनीयिषीष्ट / अत्यर्थं पुनः पुनर्वा वध्यादित्यर्थः / हन्तेर्यङि नीभावे आशीर्लिङि रूपम् / स्वतन्त्रस्य पदस्य श्रुतिकटुता पददोषः / इह तु पदानामतथाभावे ति द्रि च्छि इत्यादीनां वर्णानां परस्परसंनिधाने घटनैव कठोरेत्याह–अत्रातिकठोरत्वादिति // या तु कान्तिप्रसादार्थव्यक्तीनामन्यथा गतिः। ... अर्थप्रधानः प्रोक्तः स वाक्ये गुणविपर्ययः // 33 // अप्रसन्नं भवेद्वाक्यं प्रसादस्य विपर्ययात् / .