________________ *1 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 29 गुणानामिति / समाध्यादिभङ्गोऽपि तर्हि दोषः स्यादित्यत आह-श्लेषादीनामिति / श्लेषप्रसादसमता सौकुमार्यार्थव्यक्तिमाधुर्यकान्त्युदारतौजसाम् / एत. द्योगाद्वाक्यं वक्ररूपतामासाद्य काव्यव्यपदेशं लभते / तेषां गुणानां भङ्गः काव्याभासत्वपर्यवसायी दोषः / ते च श्लेषादयो नवैव / तेषामन्यतमाभावे काव्यस्याभासत्वात् / तेषां हि विपर्यये रीतिरवश्यं भज्यते / तस्या गुणवत्पदरचनारूपत्वात्। अत एव पानकरसन्यायेन संभूयचित्रास्वादपर्यवसानक्षमं गुणसंवलनमेव रीतिरिति लोचनकारः / रीतिः साररूपतया काव्यस्यात्मेत्युच्यते / यथा चित्रस्य लेखा उत्तुङ्गप्रत्यङ्गलावण्योन्मीलनक्षमा, तथा रीतिरिति द्वितीये विस्तरः / तनिधेति / तदिति काकाक्षिगोलकवत्पूर्वापराभ्यामभिसंबध्यते / यत्र गुणानां विपर्ययस्तदरीतिमत् / तत्रिधेत्यर्थः / त्रिधाभूतं भूयस्त्रिधा प्रचक्षते / तेन नवभेदाः / तदेतद्विवृणोतिशब्दार्थेति / योगशब्दः प्रत्येकमन्वीयते। शब्दप्रधानत्वमर्थानपेक्षशब्दनिरूप्यत्वम् / वाक्यगुणस्य श्लेषादित्रयस्य / एवशब्दानपेक्षार्थनिरूपणीयत्वं तादृशस्य कान्त्यादित्रयस्य / एतेनौजःप्रभृतित्रिकस्योभयप्रधानता व्याख्याता। तेनायमर्थः शब्दार्थोभयप्रधानतया सामान्यतस्त्रिधा भूत्वा श्लेषादित्रिकविवक्षया प्रत्येकं त्रिधा भवतीति / तेषु शब्दस्य प्राथम्यात्तत्प्रधानकगुणभङ्गः प्रथमं विवेक्तव्य इत्याहतत्रेति / अरीतिमतीति निर्धारणे सप्तमी। जात्यभिप्रायमेकवचनम् / विपर्ययेणेति / श्लेषः संधानं घटनमित्यनान्तरम् / न चैतावतैव गुणत्वं वाक्यमात्रसाधारणत्वात् / तेन बहूनामपि पदानामेकताप्रतिभासहेतुत्वमनतिकोमलत्वं च विशेषणमिच्छन्ति / विशेषमर्थगुणकाण्डे वक्ष्यामः। एवंभूतविशेषणविपर्यासे शिथिलो बन्धोऽतिकोमलो विकीर्णप्रायश्चेत्यर्थः / आलीयमित्यादौ दन्त्यवर्णप्रायतयातिकोमलत्वं विकीर्णता च व्यक्तैव / नास्य निरूपणे क्वचिदप्यर्थापेक्षेति स्फुटयन्नाह–अत्र भिन्नानामिति / श्लेषस्य शब्दप्रधानतया तद्विपर्ययोऽपि शब्दप्रधानो भवतीत्याह-शब्दप्रधानोऽयमिति / अन्यतरविशेषणहानावपि श्लेषाभावो भवत्येव / तेन पूर्वार्धस्य लेशत ऐक्यप्रतिभानसंभवेऽम्पतिकोमलतया दुष्टत्नम् // भवेत्स एव विषमः समताया विपर्ययात् / यथा--- * 'कोकिलालापवाचालो मामेति मलयानिलः / उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः // 42 // '